SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwww निशीथसूत्रे एवं सत्र ग्लानसमोसं गत्वा तत्रत्यो य आचार्यस्तं प्रति वदेत्-हे भदन्त ! आज्ञापय किमहं करोमि वैयावृत्ये स्वात्मानं नियोजयामि महमनेनैवाभिप्रायेण्यागतोऽस्मि यद् ग्लानं परिचरिष्यामि, ग्लानस्य वैयावृत्ये ये संलग्नाः साधवस्तान् भक्तपानादिभियावृत्यं करिष्यामीति । एवं कुर्वतः श्रमणस्य तीर्थकराज्ञाया आराधना कृता भवति । एवं कथिते यदि आचार्यः कथयति-यत् अमुकं कार्स कुरु, तदा तत्रत्यं सर्व कार्यमाचार्याज्ञया कर्तव्यम् । औषधभक्तपानादिना वैयावृत्त्यं कर्तव्यं यावत् स साधुन रुजो भवेत् । तस्मात् साधुना अवश्यमेव ग्लानस्य समीपे गन्तव्यम् । यस्तु श्रमणो ग्लानं श्रुत्वा तत्र झटिति न गच्छति उन्मार्गेण प्रतिपथेन वा गच्छति स तीर्थकरस्याज्ञाया विराधको भवन् प्रायश्चित्तभागी भवतीति ॥३८॥ सूत्रम्-जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपाउग्गे दव्वजाए अलभमाणे जो तं ण पडियाइक्खइ ण पडियाइक्वंतं वा साइज्जइ ॥ सू०३९॥ छाया—यो भिक्षुग्लानवैयावृत्ये अभ्युत्थितो ग्लानप्रायोग्यं द्रव्यजातमलभानो यस्तं न प्रत्याचक्षते न प्रत्याचक्षाणं वा स्वदते ॥सू० ३९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'गिलाणवेयावच्चे' प्लानवैयावृत्ये, तत्र रोगातङ्कादिना ग्लानस्य साधोः वैयावृत्यं औषधभैषज्यानपानादिना सेवाकरणे 'अब्भुट्टिए' अभ्युत्थितः समुद्यतः सेवाकरणार्थ कृतप्रयत्नो जातो यदि 'गिलाणपाउग्गे ग्लानप्रायोग्यम् ग्लानस्य प्रायोग्यमनुकूलं प्रासुकमाहारमौषधादिकं वा 'दध्वजाए' द्रव्यजातम्-तदनुकूलवस्तुविशेषम् 'अलभमाणे' अलभमानः-अप्राप्नुवन् 'जो तं म पडियाइक्खई' यो ग्लानसेवाकारकः साधुः ग्लानसाध्वर्थमौषधमशनादिकं च आनेतुं कृतप्रयत्नोऽपि तादृशद्र व्यजातम् अन्तरायबलादलभमानो यदि श्रमणान्तरं प्रति आचार्य प्रति वा रोगिणं प्रति वा न प्रत्या चक्षते न कथयति तथा 'ण पडियाइक्खंत वा साइज्जई न प्रत्याचक्षाणं वा स्वदते अनुमोदते । यो हि भिक्षुर्लानस्य श्रमणस्य वैयावृत्त्ये नियुक्तो ग्लानस्य प्रायोग्य औषधभैषज्यान्नपानादिकमानेतुं प्रयत्नं करोति तत्र यदि तादृशं प्रासुकमौषधादिकं तेन म लब्धम् तदा आगत्याचार्य प्रति अन्यस्मै साधवे वा ग्ल'नाय वा कथयितव्यं यत् औषधादिकं लाभान्तरायकर्मणा मया न लब्धमिति । एवं न कथयति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति । अत्राह भाष्यकारःभाष्यम्-वेयावच्चे गिलाणस्स, वावडो समणो जइ । दबजायं अलभंतो, गुरुणो तं निवेयए ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy