________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिमाप्यायचूरिः उ० १० सू० ३६-३८ मुखागतोगारपुनर्मिलन-ग्लानागवेषणादिनि० २४७
छाया- यो भिक्षुः रात्रौ वा विकाले वा सपानः लभोजन उद्गार आगच्छेत् तं विषिचन् वा पिशोधयन् वा मातिकामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रतिसेवनाप्राप्तः यस्तं प्रत्ववगिलति प्रत्यवगिलन्तं वा स्वदते ॥ सू०३६ ॥
चर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'राओ वा' रात्रौ वा 'वियाले वा विकाले वा संध्यासमये सूर्योदयात्प्राग वा तस्य श्रमणस्य 'सपाणे' सपान:-पानं जलं तेन सहितः सपानः 'सभोयणे वा' सभोजनो वा यद् भोजनं भुक्तमोदनादिकं तेन सहितः सभोजनः, उपलक्षणाद् उभयप्रकारो वा 'उग्गाले' उद्गारः 'डकार' इति लोकप्रसिद्धः स आगच्छेत् मुस्त्रमध्ये आगच्छेत् 'तं विगिंचमाणे' तं सजलं सभोजनमुद्गारम् विविचन् परित्यजन् मुखाद्-बहिनिष्कासयन् 'विसोहेमाणे विशोधयन् मुखस्य स्वच्छता वस्त्रादिना संपादयन् श्रमणः श्रमणी वा 'नाइक्कामइ' नातिकामति नोल्लंधयति तीर्थंकरस्याज्ञाम् 'रात्रौ न भोक्तव्यमित्याकारकं यदस्ति तस्यातिक्रमणं न करोति सपानसभोजनोद्गारस्य मुखात् निष्काशनात् मुखस्य विशुद्धिकरणाच्चेत्यर्थः 'तं' तम् अथ यदि स श्रमणो रात्री विकाले वा समागतं सपानं सभोजनमुद्गारम् ‘उग्गिलित्ता पच्चोगिलमाणे' उद्गीर्य्य प्रत्यवगिलन् यदि तं सपानं सभोजनमुद्गारं मुखादहिन निःसारयति किन्तु पुनः तदुद्गारस्थं जलं भोजनं च गलादधः कुर्वन् स 'राइभोयणपडिसेवणपत्चे' रात्रिभोजनप्रतिसेवनाप्राप्तः रात्रिभोजनजनितदोषयुक्तो भवति अतो यदि 'जो तं पञ्चोगिलइ पच्चोगिलंतं वा साइज्जइ' यः कोऽपि श्रमणः श्रमणी वा तदुद्गारस्थं जलं भोजनं प्रत्यवगिलति गलादधः करोति तथा प्रत्यवगिलन्तं वा स्वदते अमुमोदते स प्रायश्चित्तभागी भवतीति । स्. ३६॥
सूत्रम्-जे भिक्खू गिलाणं सोच्चा णच्चा ण गवेसइ ण गवेसंतं वा साइज्जइ ॥ सू०३७॥
छाया-यो भिक्षुः ग्लानं श्रुत्वा शात्वा न गवेषयति न गवेषयन्त वा स्वदते ॥सू.३७॥
चूर्णी-'जे मिक्खू' इत्यादि । 'जे भिक्खू' य, कश्चिद् मिक्षुः श्रमणः श्रमणी वा 'गिलाणं ग्लानम् तत्र यस्य रोगेण आसङ्केन वा शरीरं क्षीणं भवति शरीरस्य क्षयो बा भवति स ग्लामः, तादृशं ग्लानं सरोगातङ्कम् समानसामाचारीकं स्वगच्छीय वा श्रमणं 'सोच्चा' श्रुत्वा अन्यमुखात् 'णरचा' ज्ञात्वा स्वयमेव वा ज्ञानविषयोकृत्य 'ण गवेसई' न गवेषयति नान्वेष. यति तथा 'ण गवसंत वा साइज्जई' न गवेषयन्तं वा स्ववते अनुमोदते । यो भिक्षुः स्वग्रामे खोपाश्रये परग्राम परोपाश्रये वा स्वगच्छीयः परगच्छीयो वा समानसामाचारीकः ममुकः श्रमणो ग्लानो जात इति परेभ्यः श्रुत्वा स्वयमेव वा ज्ञात्वा तस्य गवेषणं तत्स्थितेर्जिज्ञासारूपं तद्वैयाव
For Private and Personal Use Only