SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिःउ. १० सू० ३५ उद्गतवृत्तिकादेःसूर्यानुद्गमनादिनिश्चयेभोजननिषेधः २४५ सूत्रम्-जे भिक्खू उग्गयवित्तिए अणस्थमियमणसंकप्पे असंथडिए निव्वितिगिच्छासमावन्नेणं अप्पाणेणं असणं वा ४ जाव जो तं भुंजइ भुंजतं वा साइज्जइ ॥ सू० ३४॥ छाया--यो भिक्षुः उद्गतवृत्तिकः अनस्तमितमनःसंकल्पः असंस्तुतः निर्विचिकित्सासमापन्नेन आत्मना असणं वा ४ यावत् यस्तं भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ३४॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणो वा उद्गतवृत्तिकादिवशेिषणविशिष्टः सः 'असंथडिए' असंस्तृतः अध्वप्रतिपन्नतपोग्लानत्वादिकारणात् धृतिबलादिरहितः 'निवितिगिच्छासमावन्नेणं अप्पाणेणं' निर्विचिकित्सा सूर्यस्योद्गमनानस्तमनशङ्काराहित्य, तां समापन्नेन आत्मना सन्देहरहितेनात्मना अशनादिकं गृहीत्वा भुङ्क्ते किन्तु भोक्तुं प्रवृत्ते सति यदि जानीयात् 'सूर्यो नोदितः, अस्तं वा गतः' इत्येवं निश्चये सत्यपि यो मुङ्क्ते न तदशनादिकं परिष्ठापयति स प्रायश्चित्तभागी भवतीति भावः ।। सू० ३४॥ सूत्रम्-जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे असंथडिए वितिगिच्छासमावण्णेणं अप्पाणेणं असणं वा ४ जाव जो तं मुंजइ भुंजंतं वा साइज्जइ ॥सू० ३५॥ छाया--यो भिक्षुः उद्गतवृत्तिकः अनस्तमितमनःसंकल्पः असंस्तृतः विचिकित्सासमापन्नेन आत्मना अशनं वा ४ यावत् यस्तं भुक्ते भुञ्जानं वा स्वदते सू० ३५।। चूर्णी-'जे भिक्खू' इत्यादि । व्याख्या पूर्ववदेव, नवरम् -'असंथडिए' असंस्तृतः असमर्थः यः कोऽपि मुनिर्दूरक्षेत्राद् विद्वत्यागमनेन श्रान्तः, मासक्षपणस्य पारणकदिवसत्वेन ग्लानत्वमापन्नः, रोगादिना ग्लानत्वमापन्नो वा भवेत्, इत्यादिकारणैधै तिबलवर्जितः 'वितिगिच्छासमावण्णेणं अप्पाणणं' विचिकित्सा-सूर्यस्योदयसंभवः संप्रति अभ्रच्छन्नादिकमाश्रित्यैवं दृश्यते, अथवा-अस्तं न गत इति संभवः, इत्येवंरूपा, तां समापन्नेण आत्मना 'उदितः सूर्यो नास्तं गतो वा सूर्यः' इति दातृवचनेन अशनादिकं गृहीत्वा भुङ्क्ते भोक्तुं प्रारभते अथ तत्समये सूर्य त्यानुद्गमनास्तमनयोनिश्चये सति यो भुङ्क्त न परिष्ठापयति तदा स प्रायश्चित्तभागी भवतीति भावः ॥सू० ३५॥ अत्र भाष्यकारो गाथात्रयमाहभाष्यम्-उग्गय वित्ती भिक्खू , होइ य जो अणत्थमियसंकप्पो । संथडिओ सो दुविहो, णिबितिगिच्छो य वितिगिच्छी ॥१॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy