SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिमायावः उ०१० सू०१६-१९ उद्घातानुद्घातयोविपर्यासवादतत्कथननि० २३९ तया पूर्व प्रतिपन्नः कथं भवान् एनं शिष्यमकरोत् यदा मालवे विहरन्नासीत्तदा मया एषः प्रतिबोधितः तस्मात ममायं भावी शिष्य इति । एवं क्रमेणोभयोः कलहो जायते अयं स्वपक्षे साधिकरणः । एवंप्रकारेणाचित्ते वस्त्रपात्रकम्बलाद्युपकरणविषयेऽपि अधिकरणं समुत्पद्यते । एवं सचित्ताचित्तमिश्रवस्त्रसहितशिष्यादौ कलहो जायते । एवं कोऽपि ! स्वगच्छगतः साधुः स्वाध्यायं करोति तदा अपर आगत्य कथयति-कथ त्वं न्यूनमधिकं वा स्वाध्यायं करोषि उत्सूत्रं वा प्ररूपयसि ? इत्यादिक्रमेणाधिकरणं समुत्पद्यते, अयमपि स्वपक्षगतः साधिकरण इति । एवं परगच्छगतसाधिकरणविषयेऽपि शिष्यविषये वस्त्रपात्रादिविषये स्वाध्यायादिविषये च ज्ञातव्यम् । अयमेकैको गच्छगतो गच्छनिर्गतो वा साधिकरणो द्विविधो भवति तद्विषयेऽप्यधिकरणत्वं स्वयमूहनीयम् । एवं कोऽपि साधुरधिकरणमुत्पादितवान् पुनश्च तदधिकरणं न व्यवशामितं न क्षामितं किन्तु अनुपशाम्य स यधागच्छेत्तं तत्रत्यः साधुर्यदि अव्युपशामितकलहम् अकृतप्रायश्चित्तं च स्वसमीपे स्थापयति तथा तेन सह आहारं करोति कारयति कुर्वन्तं वां अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १५॥ सूत्रम्-जे भिक्खू उग्घाइयं अणुग्घाइयं वयइ वयंत वा साइज्जइ ॥ छाया - यो भिक्षुरुद्घातिकमनुद्घातिकं वदति वदन्तं वा स्वदते ॥सू० १६॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्याइयं' उद्घातिकं- लघुप्रायश्चित्तम् 'अणुग्घाइयं अनुद्घातिकं गुरुप्रायश्चित्तम् 'बयइ' वदतिप्ररूपयति, यस्य कस्यचित् श्रमणस्य लघुप्रायश्चित्तमायाति तस्मै गुरुकं प्रायश्चित्तं वदति प्ररूपयति, एवं लघुक प्रायश्चित्तवन्तं गुरुक प्रायश्चित्तं वदति प्ररूपयति, तथा 'वयं वा साइज्जई' वदन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवतीति ॥ सू० १६॥ एवम् 'अणुग्घाइयं उग्याइयं वयई' इति सूत्रम् | गुरुपायश्चित्तयोग्याय श्रमणाय लघुकं प्रायश्चित्तं प्ररूपयतीति ॥सू० १७॥ अनेनैव प्रकारेण 'उग्याइयं अणुग्याइयं देइ' लघुप्रायश्चित्तयोग्याय श्रमणाय गुरुप्रायश्चित्तं ददाति-- आरोपयतीति ॥सू० १८॥ तथा 'अणुग्याइयं उग्याइयं देई' गुरुप्रायश्चित्तयोग्याय लघुप्रायश्चित्तं ददाति-भारोपयतीति । एवं सप्तदशसूत्रात् एकोनवितिसूत्रपर्यन्तानि त्रीणि सूत्राणि षोडशसूत्रवद् व्याख्येयानीति ॥ सू० १९॥ अवाह भाष्यकारः-- भाष्यम् - उग्यायमणुग्घायं, चाणुग्यायं पुणो य उग्घायं । एवं जो विपरीयं, वए दए पावए दोसे । छाया-उद्यातमनुद्घातं चातुधातं पुनश्च उद्घातम् । एवं यो विप पदेवीतं दद्यात् प्राप्नुयात् दोषान् । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy