________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णि भाष्यावचूरिः उ०१० सू०१४-१५ बहिर्वासि - साधिकरणयोः रात्रिवासदाननिषेधः २३७ कुत्रगमनकामोऽसि ? इत्येवमपृष्ट्वा 'परं तिरायाओ' परं त्रिरात्रात् रात्रित्रयादनन्तरम् रात्रित्रयात् परतश्चतुर्थादिदिने ‘संवसावेइ' संवासयति स्ववसतौ वासयति निवासं ददाति तथा 'संवसावेंतं बा साइज्जई' संवासयन्तं वा स्वदते विस्फालनामकृत्वा रात्रित्रयात् परतश्चतुर्थादि दिनेऽपि वासं वासयन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । अज्ञातकुलशीलं वसतिवासं ददाति तदा कदाचित् स चौरो मुनिवेषधारी भवेत्, लम्पटो लुण्टको वा भवेत्, चौर्यं कृत्वा राजपुरुषादिभयात् स्वात्मरक्षार्थं साधुवसतौ समागतो वा भवेत्, इत्यादि संभवादेकरात्रमपि न संवासयेत । त्रिरात्रात् परमिति यत् कथितं तत्रैवं ज्ञातव्यम् - कोऽपि साधुः मार्गविस्मृत्या स्वसाघर्मिसंघात् पृथग्भूतो भवेत्, ग्लानादिवैयावृत्यार्थं गुरुणा प्रेषित एकाकी तत्र गन्तुकामो भवेत्, इत्यादिकारणवशात् समागतो भवेत् तदा तं दिवसत्रयं यावत् वासं दद्यात् । एतादृशमपि त्रिरात्रात्परं न संवासयेत् । चतुर्थादिदिने वासदानात् बहुदोषसंभवः शिष्यापहरणादिकलङ्कश्चापि समापतेतेति ।
अत्राह भाष्यकारः
भाष्यम् - पाहूणगं ससमीवे, आगयं जो न पुच्छ । तिरायाओ परं वासे, आणाभंगाइ पावइ ||
छाया - प्राघूर्णकं स्वसमीपे, आगतं जो न पृच्छति । त्रिरात्रात् परत: वासयेत् आश्वाभङ्गादि प्राप्नोति ॥
Acharya Shri Kailassagarsuri Gyanmandir
अवचूरिः: - यः कोऽपि साधुः अन्यगच्छात् स्वसमीपे समागतं प्राचूर्णकं अन्यगच्छवासिनं साधुं यो न पृच्छति यः साधुस्तस्य परिचयादिकं न पृच्छति किन्तु अद्वैव त्रिरात्रात् परतः रात्रित्रयादनन्तरं स्ववसतौ वासयेत् तदा स श्रमणः आज्ञाभङ्गादिदोषभागी भवतीत्यर्थः । अपृष्ट्वा यदि वासयति तदा इमे दोषा भवन्ति तथाहि - कदाचित् स तेन साधुवेषेण उपद्रवकारकः कश्चित् समागतो भवेत्, वस्त्रादिलोभात् कश्चित् लुण्टको वंचको वा समागतो भवेत्, स्वपक्षपरपक्षाद् वा चौर्य कर्तु चौरो वा समागतो भवेत्, मैथुनसेवनार्थं कश्चित् मैथुनार्थी वा समागतो भवेत् राज्ञां वा अपकारं कृत्वा समागतो भवेत्, आचार्यस्य मारणाय केनचित् प्रेषितो घातको वा भवेत्, अतः सर्वं सम्यक् पृष्ट्वा यदि योग्योऽयमिति जानीयात् तदा बासो देयो नो चेत् वासो न देय इति । अपृष्टः पृष्टो वा यदि एवं वदति तदा तस्य रात्रित्रयं यावत् वासो देयः, तथाहि - भवन्तमेवोपसंपत्तुं समागतोऽस्मि, अपराधस्यालोचनां गृहीतुं समागतोऽस्मि, कुलगणसंघकार्येण वा समागतोऽस्मि, व्यशिवादिकारणैर्वा समागतोऽस्मि, सूत्रार्थजातनिमित्तेन वा समागतोऽस्मि, एवमादिकथने वासयेत् । सकारणागमनेऽपि तद्गुरोराज्ञां विना रात्रित्रयात् परतो न संवासयेदिति भावः । सू१४ ॥
"
For Private and Personal Use Only