________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ० १० सू० १३
आचार्यादिरूपदिशापहरणनिवेधः २१५ छाया-- अन्यगच्छस्य रागेण गुरुविप्परिणमयेत् ।
पूर्वगच्छस्य दोषान् यः कथयित्वा दोषवान् भवेत् ।। अवचूरि-'अन्नगच्छस्स' ' इत्यादि । यः कश्चित् श्रमणः अन्यगच्छस्य गच्छान्तरस्य रागेण तद्रागमावेन पूर्वगच्छस्य दोषान् कथयित्वा गुरुं स्वस्याचार्यादिकं विपरिणमयति-व्यामोहयति आचार्यस्य चित्तविकृति करोति तथाहि-भो गुरो ! नायं गच्छः समीचीनः इत्यादिचूर्णिप्रोक्तप्रकारेण कथयित्वा गुरोस्तद्गच्छसम्बन्धिपरिणामं शिथिलीकरोति स दीषवान् आज्ञाभङ्गादि. दोषभागी भवतीति ।
अथवा विपरिणमयतीति आचार्य परिवर्तयति स्वाचार्ये दोषान् प्रदान्यमाचार्य करोतीत्य र्थविषयेऽप्याह भाष्यकारः-- भाष्यम्--रागेण य दोसेण य, दिसं विप्परिणामए ।
तस्स दोसे भणित्ता जो, आणाभंगाइ पावइ । छाया-रागेण च द्वेषेण च दिश विपरिणमयति ।
तस्य दोषान् भणित्वा यः आशाभङ्गादि प्राप्नोति ॥ अवचूरिः–यः कश्चित् श्रमणः श्रमणी वा रागेण आचार्यान्तरानुरागेण वा द्वेषेण पूर्वा-- चार्यगतद्वेषेण वा तस्य पूर्वाचार्यस्य दोषान् भणित्वा कथयित्वा दिशं स्वाचार्य विपरिणमयति परिवर्तययि परावर्तनं करोति अन्याचार्यपार्श्व, गच्झतीति भावः, परावर्तनं कारयति वा कुर्वन्तं वा अनुमोदते स आज्ञाभङ्गादिदोषं प्राप्नोति । तत्र विपरिणमनप्रकारस्तु एवम्-कोऽपि शिष्य आचार्यादिवं प्रत्येवं वदति- यस्याचार्यस्य समीपेऽहं प्रबजितः स तु अल्पवयस्कः अहं च वृद्धः, तस्मात् एष आचार्यशिष्यसम्बन्धो न सम्यग् घटते कथमहं पुत्रसमानस्यास्याचार्यस्य शिष्यो भूत्वा तिष्ठामि ?, कथं वा अल्पवयस आचार्यस्य विनयवैयावृत्यादिकं करोमि ! किं वा मम स्वजनादिवर्गों जानाति :, अथवा असौ आचार्यः अपरिपक्वबुद्धिस्तैन सं अकर्तव्यमपि कार्य कदाचित् करिष्यति । एवं सद्भूतमसद्भूतं वा दोष वदेत् । अथाऽयमकुलीनों मदीयो गुरुरहं च कुलीनः, मेघावी चाहं स तु दुर्मेधाः । अहं धनाढ्यः सन् प्रवजितः, स तु अकिंचनो दरिद्रः प्रबजितः, अहं बुद्धिमान् स तु अबुद्धिः, अबुद्धेः कुतो लब्धिरिति नासौ लब्धिमान् , अथवा पूर्वोक्तप्रकारेणैव स्वकीयमाचार्य निन्दति, यस्य पार्थं गन्तुमिच्छति तं च प्रशंसते, यथा-अयं न पूर्वोक्तगुणवान् स तु पूर्वोक्तप्रभूतगुणवान् वर्तते, इत्यादिप्रकारेण यः कश्चित् श्रमणः स्वकीयाचार्यस्य दोषान् सदभूतानसर्भूतान् वा प्रकाशयित्वा अन्यस्याचार्यस्य च गुणान् प्रदर्श्व भूतपूर्वमाचायं त्यक्वाऽन्यमाचार्य परिसेवते स प्रायश्चित्तभागी भवति । तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥सू० १२॥
सूत्रम्-जे भिक्खू दिसं अवहरइ अवहरंतं वा साइज्जइ ॥ सू०१३॥
For Private and Personal Use Only