________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ. १० सू.० -११-१२ शैक्षापहरणाचार्यादिदिशविपरिणमननिषेधः २३३ पुनराचार्या अर्थधारिणः शास्त्रार्थ शिष्येभ्यः प्रयच्छन्ति शिष्यपरिवारैर्युक्ताः, स तु पुनरगीतार्थः तस्य समीपे एकाकिना त्वया स्थातव्यं भवेत् शिष्यादिपरिवाररहितत्वात् तस्य । अस्माकं पुनराचार्या राजेश्वर तलवरादिभिर्महाजनैः सर्वदैव सम्मानिता भवन्ति, तं पुनर्न कोऽपि जनो जानाति, न वा सत्करोति मायादियुतो हिण्डमानो लोकैरनादृतश्च । अस्माकमाचार्याः महाजनानां नेतारः, स तु एकाको, नास्ति तस्य कोऽपि जनो यस्य स नेता स्यात् । अस्माकं पुनराचार्या बालवृद्धशैक्षदुर्बलग्लानादीनां संग्रहोपग्रहकुशलाः, स तु पुनर्नकिञ्चिदपि जानाति । error माचार्या धर्मकथां राजादिपर्षदायामपि कथयितुं समर्थाः, स तु पुनर्वा चनाशक्ति विकलः परवादिपरिषदि एकमप्यक्षरमुत्तरं दातुमसमर्थ :- एकमप्यक्षरं ज्ञातुमसमर्थः एवं विविधैः प्रकारैविपरिणमयतीति ।
अथ अप्रव्रजितविषये प्रकारान् प्रदर्शयति अथवा कश्चित् शैक्षः प्रव्रज्याग्रहणार्थममुकम् आचार्य मनसि संप्रधार्य गच्छन् मार्गे कश्चित् साधुमिलितः तं पृच्छति भो आर्य ! ममामुकः आचार्यः कुत्रचित् दृष्टः श्रुतो वा भवता : स साधुर्वदति तावता किं प्रयोजनं ते विद्यते ! शैक्षको वदति प्रत्रजितुकामोऽस्मि तेषां समीपे । तदा स साधुर्दृष्टाचार्योऽपि वदति-न मया स आचार्यो दृष्टः श्रुतोऽपि वदति न मया श्रुतः, अथवा स्वदेशस्थेऽपि आचार्ये वदतिस तु आचार्यो विदेशं गतः । अथवा अग्लानेपि वदति स तु ग्लानः । अथवा वदति -यो हि तस्य समीपे प्रव्रजति स अवश्यमेव ग्लानो भवति, अथवा यः तस्य समीपे प्रव्रजति स नित्यं ग्लानवैयावृत्ये व्यापृतो भवति । अथवा एवं वदति - स तु आचार्यों मन्दधर्मा किं त्वमपि मन्दधर्मा भवितुमिच्छसि ? किं ते मन्दधर्मेण सह संगत्या ! | अथवा एवं वदति-स अल्पश्रुतः स्वं च ग्रहणधारणसमर्थः तस्य समीपे गत्वा किं करिष्यसि ? अथवा एवं वदतिस मनोवाक्कायैर्गों करोति, अथवा ज्ञाने दर्शने चरणे च गह। करोति । एवं विविधैः प्रकारैः प्रवजितुकामं तं विपरिणमयति ।
यो हि भिक्षुरुपर्युक्तप्रकारेण परशैक्षकं विपरिणामयति विपरिणमयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १० ॥
सूत्रम् — जेभिक्खू सेहं अवहरइ अवहरेंतं वा साइज्जइ || सू०११॥
छाया - यो भिक्षुः शैक्षकमपहरति अपहरन्तं वा स्वदते ॥ सू० ११ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सेह' शैक्षकम्, तत्र सूत्रमथै साधुसमाचारीं वा शिक्षयितुं योग्य: शैक्षकः शिष्यः तं शैक्षकम् 'अवहरइ' अपहरति तस्यापहारं
३०
For Private and Personal Use Only