________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
निशीथसूत्रे
वा' चामरग्रहेभ्यो वा, तत्र ये चामरं गृह्णन्ति धारयन्ति ते चामरग्रहाः, तेभ्यः 'हडप्पग्गहाण वा' हडप्पग्रहेभ्यो वा, तत्र आभरणस्थापनाय यद् भाण्डं तत् हडप्पं कथ्यते तं गृह्णन्ति धारयन्ति ये ते हडप्पाहाः, तेभ्यः 'परियदृग्गहाण वा' परिवर्तनहेभ्यो-परिवर्तः परिवर्तितवस्त्रादिस्थापनपात्रं मञ्जूपादिरूपः, तं गृह्णन्ति धारयन्तेि ये ते परिवर्तग्रहाः, तेभ्यः 'दीवियग्गहाण वा' दीपिकाग्रहेभ्यो वा, तत्र राजादीनामग्रे गृहे वा दीपिका 'दीवड' इति प्रसिद्ध, गृह्णन्ति धारयन्ति ये ते दीपिकाग्रहाः, तेभ्यः 'असिग्गहाण वा' असिग्रहेभ्यो वा, तत्रासिः खङ्गः, तं राजादिखङ्गं गृह्णन्ति धारयन्ति ये ते असिग्रहाः, तेभ्यः 'धणुग्गहाण वा' धनुर्घहेभ्यो वा, तत्र धनुश्चापः, तद् गृह्णन्ति ये ते धनुर्ग्रहाः, तेभ्यः 'सत्तिग्गहाण वा शक्तिग्रहेभ्यो वा, तत्र शक्तिः शस्त्रविशेषः, तं गृह्णन्ति ये ते शक्तिग्रहाः तेभ्यः 'कोतग्गहाण वा' कुन्तः भल्लः 'भाला' इति लोकप्रसिद्धः, तं गृह्णन्ति धारयन्ति ये ते कुन्तग्रहाः, तेभ्यः 'हत्थिपत्तग्गहाण वा' हस्तिपत्रग्रहेभ्यो वा अङ्कुशधारिभ्यः, इत्यादिकार्यकारिणां प्रयोजनाय बहिनिस्सारितं पाचितं स्थापितं वाऽशनादिकं यः स्वीकरोति स्वीकारयति वा स्वीकुर्वन्तं श्रमणान्तरं योऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २८॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गाहेतं वा साइज्जइ । तंजहा-वरिसधराण वा कंचुइज्जाण वा दोवारियाण वा दंडारक्खयाण वा ॥ सू० २९॥ . छाया--यो भिक्षुः राशः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामशन वा पानं वा खाद्यं वा स्वाद्यं वा परस्मै निहतं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते । तद्यथा-वर्षधरेभ्योग्विा कञ्चुकिभ्यो वा दौवारिकेभ्यो वा दण्डारक्षकेभ्यो वा ॥ सू० २९॥
चूर्णी-'जे भिक्खू' इत्यादि। स्पष्टम् । नवरम्-तत्र के ते परे तत्राह-'तंजहा' इत्यादि, 'तं जहा' तद्यथा-'वरिसधराण वा' वर्षधरेभ्यो वा-वर्षधराः वर्द्वितकीकरणेन नपुंसकीकृता अन्तःपुररक्षकाः, तेभ्यः 'कंचुइज्जाण वा' कंचुकिभ्यो वा, तत्र कंचुकिनो राज्ञामन्तःपुरे निवसन्तो नपुंसका एव, तेभ्यः वर्षधरकञ्चुकिनोरयं भेदः यत् वर्षधरः कृत्रिमनपुंसकः, कंचुकी तु जन्मजातो नपुंसक इति । 'दोवारियाण वा' दौवारिकेभ्यो वा द्वारपालेभ्यः 'दंडारक्खयाण वा' दण्डारक्षकेभ्यो वा, दण्डेन आरक्षन्तीति दण्डारक्षकाः, तेभ्यः दण्डेन रक्षाकर्तृभ्यः । द्वारपालस्तु केवलं द्वारमेव रक्षति, दण्डारक्षकस्तु यत्र तत्र राज्ञोऽभिमतं कार्य रक्षतीत्यनयोरिपालदण्डारक्षकयोर्विशेषः, ततश्च राज्ञां गृहे वर्षधरादीनामुद्देशेन बहिनिस्सारितं पाचितं तदर्थ स्थापितं वाऽशनादिकं यो भिक्षः लोभात् मोहात् स्वादवशाद् वा गृह्णाति गृह्णन्तं वाऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू०२९॥
For Private and Personal Use Only