SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ निशीथसूत्रे तत्राह-'आउसो' इत्यादि । 'आउसो रायतेपुरिए' हे आयुष्मति ! राजान्तःपुरिके ! अन्तःपुररक्षिके ! 'णो खल्लु अम्हं कप्पई' नो खलु मम कल्पते 'रायतेपुरे' राजान्तःपुरे 'णिक्खमित्तए वा' निष्क्रमितुं वा, तत्र निष्क्रमणं गमनम्, राज्ञामन्तःपुरे गमनमस्माकं न कल्पते 'पविसित्तए वा' प्रवेष्टुं वा प्रवेशं कर्तुं नो अस्माकं कल्पते तस्मात्कारणात् ‘इमं तुमं पडिग्गई गहाय' इमं त्वं प्रतिग्रहं पात्रं गृहीत्वा पात्रं त्वमेव गृहीत्वा मम तत्र गच्छ, गत्वा च 'रायंतेपुराओ' राजान्तःपुरात् राज्ञोऽन्तःपुरात् 'असणं वा०' अशनादिचतुर्विधमाहारम् 'अभिहडं आइटु' अभिहृतमाहृत्य अभिमुखमानी य अन्तःपुरात् इहैव मत्समीपमानीय 'दलयाहि देहि यस्मात् राजान्त:पुरे अस्माकं गमनं न कल्पते तस्मात्कारणात् त्वं मम पात्रं गृहीत्वा तत्र गत्वा अशनादिकं गृहीत्वा इहैव स्थिताय मह्यं समर्पयेति । 'जो तं एवं वयइ' यः खलु श्रमणः एवमुक्तेन प्रकारेण तां राजान्तःपुररक्षिकां स्त्रियं राजान्तःपुररक्षकपुरुषं द्वारपालादिकं वा प्रति ब्रूते सः, तथा 'वयंतं वा साइज्जई' एव मुपयुक्तप्रकारेण अन्तःपुरिकां प्रति वदन्तमन्यं वा श्रमणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । अन्तः-पुरिकासमानीताहारादिग्रहणे बहवो दोषा भवन्ति, तथाहि-गच्छन्ती समागच्छन्ती वा ईर्यासमितिमजानन्ती मार्गे षट्कायविराधनां कुर्यात् , अप्रतिलेखितायां भूमौ पात्रं स्थापयेत्, अप्रतिलेखितपात्राद् गृह्णीयात् , एषणादोषानभिज्ञा साऽनेषणीयमपि गृह्णीयात्, संघट्टदोषानभिज्ञा सचित्तसंघट्टितमपि गृह्णीयात् , स्खलिता वा भाजनं भिन्द्यात् , साधुरूपमुग्धा आहारे वशीकरणादिचूर्णमपि प्रक्षिपेत् , दध्यादिषु विरोधिद्रव्यं धृतदुग्धादिकमेकत्र गृह्णीयात् , पात्रबन्धं वा शाकादिना स्वरण्टितं कुर्यात्, इत्याधनेके दोषाः समापधेरन्, तस्मात्कारणात् साधुरन्तःपुरिकया समानीतमाहारं नो गृह्णीयात् , नान्यं प्राहयेत् , गृह्णन्तं वाऽन्यं नानुमोदयेदिति भावः ॥सू० ४।। सूत्रम्-जे भिक्खू नो वएज्जा रायंतेपुरिया वएज्जा “आउसंतो समणा ! णो खलु तुझं कप्पइ रायंतेपुरे निक्खमित्तए वा पविसित्तए वा आहरेयं पडिग्गहं अतो अहं रायंतेपुराओ असणं वा पाणं वा खाइभं वा साइमं वा अभिहडं आहहु दलयामि” जो तं एवं वयंतिं पडिसुणेइ पडिसुणेतं वा साइज्जइ ॥सू० ५॥ ___छाया यो भिक्षुनों वदेत् राजान्तःपुरिका वदेतू-"आयुष्मन् ! श्रमण ! नो खलु तव कल्पते राजान्तपुरे निष्क्रमितुं वा प्रवेष्टुं वा आहरेमं प्रतिग्रहं अतोऽहं राजान्तः पुरात् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा अभिहतमाहृत्य ददामि" यस्तामेवं वदन्ती प्रतिशृणोति प्रतिशृण्वन्तं वा स्वदते ॥सू०५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'नो वएज्जा' नो वदेत् राज्ञोऽन्तःपुरद्वारमुपस्थितो भिक्षुरन्तःपुररक्षिकां प्रति स्वयं नो वदेत्-राजान्तःपुरात् अशना For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy