________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ नवमो देशकः ॥
व्याख्यातोऽष्टमोदेशकः, सम्प्रति नवमः प्रारभ्यते, तत्रास्य नवमोद्देशकस्याष्टमोद्देशकान्तिम
सूत्रेण सह कः सम्बन्धः ? इति चेदत्राह भाष्यकारः
Acharya Shri Kailassagarsuri Gyanmandir
भाष्यम् - पिंडहिगारो राया, इयाण वृत्तो य अट्ठमुद्दे से । रायाइणो य के ते, पिंडो वा कइबिहोऽत्थ नवमम्मि ||
छाया-पिण्डाधिकारो राजादिकानां प्रोतश्चाष्टमोद्देशे । राजादयश्व के ते, पिण्डो वा कतिविधोऽत्र नवमे ॥
अवचूरि : - 'पिंड हिगारो' इत्यादि । पूर्वमष्टमोदेशकस्यान्तिमसूत्रे राजादीनां पिण्डग्रहणस्याधिकारः प्रोक्तः । ते च राजादयः के ? पिण्डो वा कतिविधो भवति ?, एषोऽधिकारः अत्र नमो देशके निरूपयिष्यते, इत्येष सम्बन्धोऽष्टम नवमोद्देशकयोरिति, अनेन सम्बन्धेनायातस्यास्य नवमोद्देशकस्येदमादिसूत्रम् — 'जे भिक्खू रायपिंडं' इत्यादि ।
सूत्रम् -- जे भिक्खू रायपिंडं गिव्हs गिण्हंतं वा साइज्जइ ॥ सू० १॥
छाया - यो भिक्षुः राजपिण्डं गृह्णाति गृहन्तं वा स्वदते ॥ सू० १ ||
"
चूर्णी :- 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रायपिंडं गिoes' राजपिण्डं गृह्णाति, अत्रा - मात्यादीनां पिण्डोऽपि राजपिण्डः प्रोच्यते । तन्नामानि अष्टमोदेशके प्रदर्शितानि । पिण्डशब्देनत्र चतुर्विधमशनादिकं वस्त्रपात्रादिकं च गृह्यते, तं गृह्णाति स्वीकरोति तथा 'गिव्हतं वा साइज्म' गृहन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, यत उपर्युक्तवस्तुप्राप्यथै राजादीनां स्तुत्यादिकं कर्तव्यं भवेत्, तथा राजप्रभृतीनां महार्घवस्तुप्राप्तौ मोहोदयोपि अधिकाधिक एव भवति, बहुमूल्य वस्तुग्रहणे परिग्रहदोषो भवति, तथा तादशवस्तुनः स्वसमीपे स्थापने साधुमर्यादाऽपि स्खण्डिता स्यात् तेन मर्यादाभङ्गोऽत्रावश्यम्भावी, साघोरसमाधिरपि स्यात्, तथाऽधिकमूल्यकवस्त्रपात्रादिकं स्वसमीपे स्थापयतः चौरादिभयमपि स्यात्, तथा वस्त्रपात्रादीनामधिकाधिकस्य लामे लोभवृद्धिरपि भवेत् तेन एषणासमितेरपि विनाशः स्यात् एवं तादृशवस्तूनां रक्षणादिकरणे एव समयस्य व्ययात् सूत्रार्थयोरपि हानिः स्यात्, संयमविराधनमात्मविराधनं च स्यात् यस्मात् राजपिण्डग्रहणे पूर्वोक्ता एते दोषा भवन्ति तस्मात्कारणात् भिक्षुः कथमपि राजपिण्डं स्वयं न गृहीयात् न वा परं ग्राहयेत् न वा गृह्णन्तमनुमोदयेदिति ॥ सू० १ ॥
,
"
1
सूत्रम् - जे भिक्खु रायपिंडे भुजइ भुजंत वा साज्जइ ॥ सू० २॥
छाया -यो भिक्षुः राजपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ||०२||
For Private and Personal Use Only