SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० निशीथसूत्र गुलं वा खंड वा सक्करं वा मच्छंडियं वा भोयणजायं पडिग्गाहेइ पडिग्गाहेतं वा साइज्जइ ॥सू० १८॥ ___ छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां सन्निधिस निचयात् क्षीरं वा दधि वा नवनीतं वा सर्पिर्वा तैलं वा गुडं वा लंडं वा शर्करां वा मत्स्यंडिकं वा अन्यतरद् वा भोजनजातं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥सू० १८॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘रण्णो' इत्यादि-राजादीनां 'सण्णिहिसण्णिचयाओ' सन्निधिसंनिचयात् , तत्र सन्निधिर्नाम दधिदुग्धगुडखंडादिद्रव्यम् तद द्धिविधं-विनाशि अवनाशि च, तत्र विनाशिद्रम्-दधिदुग्धनवनीतप्रभृति अल्पकालेन विकृतिसंभवात्, अविनाशिदव्यम् घृततैलगुडखण्डशर्करामत्स्यण्डिकप्रमृति बहुकालस्थायित्वात् उक्तञ्च मोदणगोरसमादी, विणासिदव्वा उ सण्णिही होति, सक्कुलितेल्लघयगुला, अविणासी संचश्यदव्वा ॥१॥ छाया-ओदनगोरसादीनि विनाशिद्रव्याणि तु संनिधयो भवन्ति । शष्कुलितैलघृतगुडानि, अविनाशीनि संचितद्रव्याणि ॥१॥ इति । तस्य-द्विविधस्यापि संनिचय एकत्रीकृतसंचयः, तस्मात् संचितात् संचितद्रव्यमध्यात् यत् किमप्येकमनेकंवा वा 'खीरं वा' क्षीरं वा दुग्धं वा 'दहि वा' दधि वा ‘णवणीयं वा' नवनीतं वा म्रक्षणं 'सपि वा सर्पिर्वा घृतम् 'तेल्लं वा' तैलं वा 'गुलं वा'गुडं वा 'खंडं वा' खण्डं वा 'बुरा' इति लोकप्रसिद्धम् 'सक्करं वा' शर्करां वा-खण्ङजातिविशेष 'मच्छंडियं वा' मत्स्यण्डिकं वा मीसरीतिलोकप्रसिद्धम् 'अण्णयरं वा भोयणजायं' अन्यतरद् वा भोजनजातम् , एतदतिरिक्तं वा भोजनजातम् 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्यन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।।सू० १८॥ सूत्रम्--जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उस्सहपिंडं वा संसट्ठपिंडं वा अणाहपिंडं वा किविणपिंडं वा वणीमगपिंडं वा पठिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ |सू० १९॥ छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानाम् उत्सृष्टपिण्डं वा संसृष्टपिण्डं वा अनाथपिण्डं वा कृपणपिण्डं वा वनीपकपिण्डं वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥सू० १९॥ ___ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणों' इत्यादिराजादीनां 'उस्सपिंडे वा' उत्सृष्टपिण्डं वो काकादिभ्यः प्रक्षेपणाय स्थापितं पिण्डमोदनादिकम् For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy