________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशोथसूत्रे
छाया-यो भिक्षुः स्वगीयया परगणीयया निर्ग्रन्थ्या साद्धं प्रामानुग्राम द्रवन् पुरतो गच्छन् पृष्ठतः रीयमाणः (गच्छन्) अपहतमनःसंकल्पः चिन्ताशोकसागरसंप्रविष्टः करतलप्रन्यस्तमुखः आर्तध्यानोपगतो विहारं वा करोति, स्वाध्यायं वा करोति, अशनं वा पान वा खाद्य वा स्वाध वा आहरति, उच्चारं वा श्रवणं वा परिष्ठापयति, अन्यतरां वा अनार्या निष्ठुरां मैथुनीमश्रमणप्रायोग्यां कथां कथयति कथयन्तं वा स्वदते ॥११॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सगणिच्चाए वा' स्वगणीयया-स्वगणसम्बन्धिन्या 'परगणिच्चियाए वा' परगणीयया-परगच्छसम्बन्धिन्या वा 'णिग्गथीए सद्धि' निम्रन्थ्या श्रमण्या सार्द्धम् 'गामाणुगाम दुइज्जमाणे' प्रामानुग्रामं द्रवन् एकस्मात् ग्रामात् ग्रामान्तरं प्रति गच्छन् 'पुरओ गच्छमाणे' पुरतो गच्छन्- पुरतो श्रमण्या अग्रे गच्छन् 'पिट्ठओ रीयमाणे' पृष्ठतो रीयमाणः-पृष्ठतश्चलन् तद्वियोगात् 'ओहयमणसंकप्पे अपहतमनःसंकल्पः, तत्रापहतो विनष्टो मनसः संकल्पो विचारो यस्य स तथा उद्भ्रान्तमना इत्यर्थः, 'चिंतासोयसागरसंपविटे' चिन्ताशोकसागरसंप्रविष्टः चिन्तासमुद्रे शोकसमुद्रे च प्रविष्टः 'करयलपल्हत्थमुहे' करतलप्रन्यस्तमुखः साध्वीवियोगतः स्वहस्ततले स्थापितमुख इत्यर्थः, 'अज्झाणोवगए' आर्तध्यानोपगतः-आर्तध्यानं संप्राप्त इत्यर्थः, एतादृशः सन् 'विहारं वा करेइ' विहारं वा करोति अयं भावः-स्वगणसम्बन्धिन्या परगणसम्बन्धिन्या वा श्रमण्या सह मार्गे गच्छन् श्रमणः यदि कदाचित् अग्रे गच्छति दूरं पश्चाद् वा श्रमणो भवति, कदाचित् श्रमणः पुरतो भवति साध्वी पश्चात् भवति, कदाचित् श्रमणः पश्चाद् भवति श्रमणी अग्रे भवति तदा श्रमणीवियोगात् श्रमणोऽपहतमनःसंकल्पो भूत्वा शोकसागरे पतित इवार्तध्यानोपगतः सन् विहारं करोति, अन्यसर्व पूर्ववद् व्याख्येयम् ॥सू०११॥
सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं वा अंतो उवस्सयस्स अद्धं वा राई कसिणं वा राइं संवसावेइ संवसावेंतं वा साइज्जइ ॥सू० १२॥
छाया-यो भिक्षुआतकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा अन्तरुपा श्रयस्यार्द्धा वा रात्रिं कृत्स्ना वा रात्रि संवासयति संवासयन्तं वा स्वदते ॥सू०१२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'णायगं वा' ज्ञातकं वा स्वजनं स्वपरिचितं वा 'अणायगं वा' अज्ञातकम्-स्वजनातिरिक्तमपरिचितं वा 'उवासयं वा उपासकम्-जिनधर्मोपासकं श्रावकं वा 'अणुवासयं वा' अनुपासकं वा-अन्यमतावलम्बिनं वा 'अन्तो उवस्सयस्स' अन्तर्मध्ये उपाश्रयस्य वसतेमध्ये इत्यर्थः 'अद वा राई अर्धी वा रात्रिम्
For Private and Personal Use Only