SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावद्भिः उ०६सू०१८-२३ मातृप्रामप्रकरणम् १६७ जलेन एकवारमनेकवारं वा प्रक्षालनं कृत्वा तदनन्तरम् 'अलिंपेत्ता विलिपेत्ता' आलिप्य विलिप्य पूर्वोक्तोषधिरूपेण लेपनद्रव्येणैकवारमनेकवारं वा लेपयित्वा तदनन्तरं 'तेल्लेण वा' तैलेन वा 'घएण वा' घृतेन वा 'वसाए वा' वसया वा च/तिलोकप्रसिद्धया 'णवणीएण वा' नवनीतेन वा म्रक्षणेन 'मक्खन' इति प्रसिद्धेन 'अभंगेज्ज वा' अभ्यञ्जयेद्वा एकवारं वा अभ्यञ्जनं कुर्यात् 'मक्खेज्ज वा' म्रक्षयेद्वा प्रतिदिनमनेकबारं वा तैलादिना अभ्यङ्गं वा कुर्यात् 'अभंगेंतं वा मक्खंत वा साइज्जई' अभ्यञ्जयन्तं वा म्रक्षयन्तं वा स्वदते । यो हि श्रमणः स्त्रियाः योन्यादिक तैलादिना अभ्यञ्जयति मैथुनेच्छया तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभगानवस्थामिथ्यात्वसंयमविराधनादिदोषाश्चापि भवन्ति, यस्मादेते दोषा भवन्ति तस्मात्कारणात् स्त्रीणामङ्गं श्रमणस्तैलादिना नाभ्यञ्जयेत् न वा तैलादिना अभ्यङ्ग कुर्वतः कथमपि अनुमोदनं कुर्यादिति ।।सू० १७॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिटेतं वा सोयतं वा उच्छोलेत्ता पधोएत्ता आलिंपेत्ता विलिंपेत्ता अभंगेत्ता मक्खेत्ता अन्नयरेण धूवणजाएण धूवेज्ज वा पधूवेज्ज वा धूतं वा पधूवेंतं वा साइज्जइ ॥ सू० १०॥ छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं पा उच्छोल्य प्रधाव्य आलेप्य विलेप्य अभ्यज्य प्रायित्वा अन्यतरेण धूपनजातेन धूपयेद्वा प्रधूपयेहा धूपयन्तं पा प्रधूपयन्तं वा स्वदते ॥सू० १८॥ चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'पोसतं वा' पोषान्तं वा 'पिटुतं वा' पृष्ठान्तं वा 'सोयतं वा' स्रोतोऽन्तं वा 'उच्छोलेत्ता पधोएचा' उच्छोल्य प्रधान्य एकवारमनेकवारं वा शीतोष्णजलेन प्रक्षालनं कृत्वा 'आलिपेत्ता विलिपेत्ता' आलेय विलेप्यएकवारमनेकवारं वा लेपनद्रव्येण विलेपनं कृत्वा तदनन्तरम् 'अन्भंगेत्ता मक्खेत्ता' अभ्यञ्ज्य प्रक्षयित्वा एकवारमनेकवारं वा तैलघृतवसानवनीतान्यतमेनाऽभ्यञ्जनं कृत्वा 'अन्नयरेण धूपणजाएणं' अन्यतरेण धूपनजातेन केनाप्येकेन सुगन्धिद्रव्यधूपेन 'धूवेज्ज वा' धूपयेद्वा एकवारं धूपितं कुर्यात् 'पधूवेज्ज वा' प्रधूपयेद्वा अनेकवारं धूपद्रव्यजातेन धूपयेत् , तथा 'धृतं वा पर्वत वा साइज्जइ'धूपयन्तं वा प्रधूपयन्तं वा स्वदते । यो हि मिक्षुः मैथुनसेवनेच्छया स्त्रिया अङ्गादिकं प्रक्षालनलेपनाभ्यञ्जनानन्तरं धूपनद्रव्येण एकवारमनेकवारं वा धूपयति सः, तं यो भिक्षुरनुमोदते सोऽपि च प्रायश्चित्तभागी भवति, तथा तस्याज्ञामङ्गादिका दोषाश्चापि भवन्ति । यस्मादेते For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy