________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५६
निशीथसूत्रे
सूत्रम् — जे भिक्खू स्यहरणस्य परं तिण्हं बंधाणं देइ देतं वा साइ
ज्जइ ॥ सू० ७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया -यो भिक्षुः रजोहरणस्य परं त्रयाणां बन्धानां ददाति ददतं वा स्वदते ॥७२॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'रयहरणस्स' रजोहरणस्य 'परं तिहूं बंधाणं' परं त्रयाणां बन्धानाम् बन्धनत्रयादधिकं बन्धनम् 'देव' ददाति बन्धनचतुषकादिना बध्नातीत्यर्थः, 'देतं वा साइज' ददतं वा स्वदते । यो हि रजोहरणे
घनत्रयादधिकानि चतुः पश्च वा बन्धनानि ददाति तं योऽनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञा भङ्गादिका दोषाश्चापि भवन्तीव्यतो रजाहरणे बन्धनत्रयादधिकं बन्धनं न दद्यात् तथा ददतं मानुमोदयेत् ।। सू० ७२ ॥
सूत्रम् — जे भिक्खू स्यहरणं अविहीए बंधइ बंधंतं वा साइज्जइ । ७३ ।
छाया - यो भिक्षुः रजोहरणमविधिना वध्नाति बध्नन्तं वा स्वदते ।। सू० ७३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'रयहरणं' रजोहरणम् afatty बंध' प्रविधिना शास्त्रोक्तविध्यतिक्रमेण बध्नाति बन्धनं ददाति तथा 'बंधतं वा साइज्जइ' बनन्तं वा स्वदते, अविधिना यो रजोहरणे बन्धनं ददाति तमनुमोदते वा स प्रायश्चित्तभागी भवति । यस्मात् अविधिबन्धने पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः कथमपि रजोह - रणे अविधिबन्धनं न दधात्, न वा अविधिना बन्धनं ददतमन्यमनुमोदयेदिति ॥ सू० ७३ ॥
सूत्रम्--जे भिक्खू रयहरणं कंडुसगबंधेणं बंधइ बंधतं वा साइज्जइ ।
P
छाया - यो भिक्षुः रजोहरणं कन्दुकबन्धेन बध्नाति बध्नन्तं वा स्वदते ॥ सू०७४। चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'स्यहरणं' रजोहरणम् ''कंस' कन्दुकबन्धनेन, कन्दुकमिति बालानां खेलनोपकरण विशेषः 'दडा' 'बोलं' इति प्रसिद्धं, तद्बन्धनसद्दशबन्धनेन ‘बंध' बध्नाति, तथा 'बंधतं वा साइज्जइ' बध्नन्तं बन्धनं कुर्वन्तं वा स्वदते अनुमोदते । यः श्रमणः कन्दुकबन्धनसदृशबन्धनेन रजोहरणं बध्नाति तस्य कठिनबन्धनकरणे पुनर्मोचने बिलम्बो भवति तेन सूत्रार्थयोर्हानिर्भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति तस्मात् रजोहरणे तादृशं बन्धनं न दातव्यं, न वा ददतं कमप्यनुमोदयेदिति ॥ सू० ७४॥
सूत्रम् - जे. भिक्खू स्यहरणं वोसट्टं घरेइ धरेतं वा साइज्जइ ॥ ७५ ॥
For Private and Personal Use Only