________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीयसी चूर्णी-'जे भिक्खू ' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'लाउयपायं वा' अलाबुकपात्रं 'अलाबु' इति तुम्बिकेति लोकप्रसिद्धं, तस्य पात्रम् 'दारुपायं वा' दारुषानं वा-काष्ठपात्रमित्यर्थः 'मट्टियापायं वा मृत्तिकापात्रं वा मृण्मयं भाजनमित्यर्थः 'अलं' मालम्-अखण्डम् 'थिरं' स्थिरं दृढ़ 'धुवं' ध्रुवं बहुकालपर्यन्तपरिभोगयोग्यं धारणिज्ज' धारणीयं धारयितुं योग्यं न तु त्यागयोग्यम् , एतावता पात्राणां परिष्ठापनाभावे कारणं प्रदर्शितम् , एतादृशं कार्यक्षममपि भलाबुपात्रादिकम् ‘पलिभिदिय पलिभिदिय' परिभिध परिभिद्य प्रस्फोट्य प्रस्फोटयेत्यर्थः 'परिवेई परिष्ठापयति पात्राणि चूर्णीकृत्य भूमौ निक्षिपतीव्यर्थः, तथा 'परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यः श्रमणः कार्यक्षममपि अलाबुपात्रादिकं खण्डीकृत्य परिष्ठापयति, तमनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनादिका दोषाश्चापि भवन्ति, यस्मात्कारणात् कार्यक्षमानामपि पात्राणां खण्डीकृत्य परिष्ठापने परिष्ठापयितुरनुमोदने च पूर्वोक्ता दोषा भवन्ति, तस्मात् कारणात् श्रमणः अलाबुपात्रादिकं कार्यक्षमं चूर्णीकृत्य न परिष्ठापयेत् , न वा परिष्ठापयन्तमनुमोदयेदिति ।।सू०६७॥
सूत्रम्-जे भिक्खू दंडगं वा लट्ठियं वा अवलेहणियं वा वेणसइयं वा पलिभंजिय पलिभंजिय परिट्ठवेइ परिहवेतं वा साइज्जइ ॥ सू० ६८॥
छाया-यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा वेणुसूचिकां वा परिमम्ज्य परिभज्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६८॥
चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दंडगं वा' दंडकं-दारुवेणुप्रभृतिदण्डं वा 'लट्ठिय वा' यष्टिकां वा 'अवलेहणियं वा' भव.
हनिकां वा तत्र अवलेहनिका चरणलग्नकर्दमनिःसारणाय वंशादिनिर्मित्तक्षुरिकादिरूपा, ताम् 'वेणुन इयं वा' वेणुसूचिकां वा 'पलिभंजिय पलिभंजिय' परिभञ्ज्य परिभञ्ज्य त्रोटयित्वा त्रोटयित्वेत्यर्थः 'परिट्रवेइ' परिष्ठापयति, तथा 'परिवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते । यो हि भिक्षुर्दण्डादिकं बोटयित्वा परिष्ठापयति, तं वा योऽनुमोदते स प्रायश्चित्तभागी भवति स्था तस्याज्ञाभङ्गादिका दोषाः भवन्ति ॥सू० ६८।। ।
सूत्रम्--जे भिक्खू अइरेगपमाणं रयहरणं धरेइ धरतं वा साइज्जइ ॥सू० ६९॥
छाया-यो भिक्षुरतिरेकप्रेमाणं रजीहरणं धरति धरन्तं वा स्वदते ॥ सू० ६९ ॥
For Private and Personal Use Only