________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
निशीथसत्रे
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'अविहीर' अविधिना शास्त्रप्रदर्शित विधिव्यतिक्रमेण 'परिट्ठवेई' परिष्ठापयति व्युत्सजति 'परिहवत वा अविधिना उच्चारप्रस्रवणादिकं परिष्ठापयन्तं व्युत्सृजन्तं स्वदते स प्रायश्चित्तभागी भवति । तत्र विधिमाह-यत्र परिष्ठापयितुमिच्छति तत्र स्थानस्य दिशायाश्च दृष्टया प्रतिलेखनं करणीयम् , तथा तादृशस्थाने त्रसस्थावरादिजीवो भवेत् तदा तादृशस्थानस्य प्रमार्जनं कर्तव्यम् , प्रमार्जनं कृत्वा भूमेरुपरि चतुरङ्गुलोच्छ्रितहस्तेन परिष्ठापयेत् , इति विधिर्ज्ञातव्यः । एतादृशविधिव्यतिरेकेण य उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा अनुमोदते तस्य पूर्वोक्ता दोषा भवन्तीति ॥१३७॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिद्ववेत्ता नपुंछइ, न पुंछंतं वा साइज्जइ ॥ सू० १३८॥
छाया-यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य न प्रोञ्छति, न प्रोज्छन्तं वा स्वदते ॥ __चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिद्ववेत्ता' परिठाप्य व्युत्सृज्य 'न पुंछई' न प्रोञ्छति तयोर्लेप नापनयति, तथा 'न पुंछतं वा साइज्जइ' न प्रोञ्छन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० १३८॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिवेत्ता कटेण वा किलिं चेण वा अंगुलियाए वा सलागाए वा पुंछइ पुंछंतं वा साइज्जइ ॥१३९॥
छाया-यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य काष्ठेन वा किलिंचेन वा अङ्गल्या वा शलाकया वा प्रोञ्छति प्रोज्छन्तं वा स्वदते ॥सू० १३९ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवर्ण' उच्चारप्रस्रवणं 'परिद्ववेत्ता' परिष्ठाप्य 'कहेण वा' काष्ठेन वा 'किलिंचेण वा किलिंचेन वा तत्र किलिंचो वंशचीरिका, वेणुना निर्मितः क्षुरिकासदृशो वस्तुविशेषस्तेन वा 'अंगुलियाए वा' अङ्गल्या वा 'सलागाए वा' शलाकया वा लोहादिनिर्मितशलाकया 'पुंछइ' प्रोञ्छति-स्वच्छं करोति 'पुछतं वा साइज्जइ' प्रोञ्छत वा स्वदते । जीर्णवस्त्रस्याङ्गुलत्रयदीर्घायामपरिमितेन खण्डवस्त्रेण क्रमशः प्रथममुच्चारस्थानं प्रोञ्छनीयम् , तदनु च नावापूरत्रयपरिमिताचित्तजलेन तत् स्थानं प्रक्षालनीयं, तत्त एकनावापूरपरिमितेनाचित्त जलेन हस्तौ प्रक्षालनीयौ, इति । सू० १३९ ॥
सूत्रम्--जे भिक्खू उच्चारपासवणं परिट्ठवेत्ता णायमइ, णायमंतं वा साइज्जइ ॥१४०॥
छाया--यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य नाचमति नाचमन्तं वा स्वदते ।१४०। चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवणं'
For Private and Personal Use Only