________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धूर्णिभाष्यावचूरिः उ० ४ ० २७-२८
व्यपशमिताधिकरणस्य पुनरुदीरणनिषेधः १२२
रूपं निर्वर्त्तनाधिकरणम् । उक्तञ्च भगवती सूत्रे षोडशशतकस्य प्रथमोद्देशे – “जीवे णं भंते ! ओरालि यसरीरं निव्वतेमाणे अहिगरणी अहिगरणं ? गोयमा ! अहिगरणीवि अहिगरणंपि” । जीवः खल्लु भदन्त ! औदारिकं शरीरं निर्वर्त्तयन् अधिकरणी अधिकरणम् ? गौतम ! अधिकरण अपि अधिकरणमपि । इति च्छाया । ततः जीवोऽधिकरणी, शरीरमधिकरणम् । गतं निर्वर्त्तनाधिकरण प्रथमम् । द्वितीयं- निक्षेपाधिकरणम्, तत्र निक्षेपो नाम पात्रादीनामधः स्थापनम्, तद्विषये यदधिकरणं, तच्चतुर्विधम्, तत्र - प्रमार्जनायाः प्रतिलेखनायाश्चाऽकरणे द्वौ २, तथैवतयोरेव प्रतिलेखन - प्रमार्जनयोरविधिकरणे द्वौ २, एवं निक्षेपणाधिकरणस्य चत्वारो भेदाः ।
तृतीयं - संयोजनाधिकरणम् - संयोजना - संमेलनम्, तद्विषयेऽधिकरणम्, तद् द्विविधम्-भक्तसंयोजनाधिकरणम् १, उपधिसंयोजनाधिकरणं च २ । तत्र भक्तसंयोजनाधिकरणम्- सरसभोजनेऽरसभोजनस्य, अरसे सरसस्येत्यादिरूपेण संयोजनम् तत्र कलहोऽधिकरणम् ।
चतुर्थ - निसर्जनाधिकरणम्- निसर्जनं निष्कासनं प्रदानम् तद्विषयकमधिकरणम् । तत् त्रिप्रकारकम्, तद्यथा-सहसानिसर्जनम् १, प्रमादनिसर्जनम् २, अनाभोगनिसर्जनम् ३, क्रमेण त्रयो भेदाः । तत्र-सहसानिसर्जनमाकस्मिकम् । प्रमादनिसर्जनम् - कर्त्तव्या कर्त्तव्याऽनवधारणे निःसारणम् । अनाभोगनिसर्जनम् अज्ञानवशात् निस्सारणम् ।
•C
Acharya Shri Kailassagarsuri Gyanmandir
9
"
पूर्ववर्णितेषु मध्ये निर्वर्त्तनाऽधिकरणं विशेषतः पूर्वं निरूपितम् । अथ निक्षेपाधिकरणं विविच्यते - निक्षेपाधिकरणं द्विविधम्--लौकिकं लोकोत्तरिकंच । तत्र लौकिकमनेकप्रकारकं - हल - मुसल - मृगबन्धन्यादीनां स्थापनम्, लोकोत्तरिकं वस्त्रपात्रादीनां स्थापनम् तच्च सप्तविधम्, तद्यथा - 'न प्रत्युपेक्षते न प्रमार्जयति १, न प्रत्युपेक्षते - प्रमार्जयति २, प्रत्युपेक्षते न प्रमार्जयति ३, दुष्प्रत्युपेक्षते दुष्प्रमार्जयति ४, दुष्प्रत्युपेक्षते सुप्रमार्जयति ५, सुप्रत्युपेक्षते - दुष्प्रमार्जयति ६, यस्तु-सप्तमो भङ्गःसुप्रत्युपेक्षते सुप्रमार्जयति ७, एष नाधिकरणम्, तस्य शुद्धत्वात् । यद्वा-अशनादीनामपावृतत्वेन स्थापनं तदपि निक्षेपाधिकरणम् । इति निक्षेपाधिकरणम् ॥
अथ संयोजनाधिकरणं प्रारभ्यते--संयोजनाधिकरणं द्विविधम्--लौकिकं १, लोकोत्तरिकं च २ । तत्र--लौकिकं तद् यद् रोगादिकारणे नानाविधौषधीनां सम्मेलनम्, विषगरादीनां निष्पत्तिनिमित्तकं सम्मेलनम् । लोकोत्तरिकं संयोजनाधिकरणं द्विविधम्- - आहारे - उपकरणे च २ । तत्राहारेऽपि द्विविधम्--अन्त-र्बहिश्च २ । तत्रान्तर्वसतौ यत् संयोजना धिकरणं तत्-त्रिविधम्--भाजने १, हस्ते २, मुखे च ३ । तत्र भाजने क्षीरखण्डादीनां सम्मेलनम्, हस्ते - गुडादिकस्य । मुखे प्रथमं डादिकं प्रक्षिप्प पश्चात् गुडादिकं प्रक्षिपेत् ।
बहिस्तत्-यद्भिक्षामटन् यद्येन सह संयुज्यते तत्तेन सह संयोजयेत् । यत्सामान्यं दुग्धं, घनीभूता दुग्धविकृतिश्च (मावा) इति लोके प्रसिद्धा, यदि लभ्यते तत्र विचारणा जायेत -
For Private and Personal Use Only