________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
निशीथसूत्रे . छाया-आचार्याद्यदत्तमशनादि चतुर्विधम् ।
वस्त्र-कम्बल-पात्रादि कदापि नैव गृलोयात् ॥ अवचूरिः--'आयरियाई' इत्यादि । अशनादिकं चतुर्विधमाहारम् , तथा-वस्त्रकम्बलपात्रादि, आदिशब्दादोषध-भैषज्यादिकं च सर्ववस्तुजातम् , भाचार्योपाध्यायादिनाऽदत्तं मुनिः कदापि काले नैव गृह्णीयात् । यदि गृह्णीयात्तदा प्रायश्चित्तभाग् भवेत् ।। सू० २२॥
सूत्रम्-जे भिक्खू आयरियउवज्झाएहिं अविदिण्णं विगई आहारेइ आहारेतं वा साइज्जइ ॥ सू० २३॥
छाया-यो भिक्षुः आचार्योपाध्यायैः अविदत्तां विकृतिम् आहरति अहरन्तं वा स्वदते ॥ सू० २३॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आयरियउवज्झाएहि' आचायोपाध्यायैः उपलक्षणाद्रत्नाधिकैर्वा, 'अविदिणं' अविदत्तामननुज्ञाताम् 'विगई' विकृति-दधिदुग्धादिरूपाम् ‘आहारेइ' आहरति-भुङ्क्ते 'आहारतं वा साइज्जई' भाहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति । सू० २३ ।।
अत्राह भाष्यकार:भाष्यम् - विगई य घयं, तेल्लं, दहिदुद्धगुडाइयं ।
___ मुंजेइ अविदिणं जो, पायच्छित्तं स पावई ॥ छाया-विकृतिश्च घृतं तैलं, दधि-दुग्ध-गुडादिकम् । ... भुङ्क्तेऽविदत्ते यः प्रायश्चित्तं स प्राप्नोति ॥
अवचूरिः-'विगई' इत्यादि । सूत्रे विकृतिश्च घृतं, तैलं, दधिदुग्धगुडादिकं प्रोच्यते । आदिपदान्मधुरादि, तद्विकृतिपदानीतं सर्वमपि-आचार्योपाध्यायरत्नाधिकाचैरविदत्तं सत् यो यति ङ्क्ते स प्रायश्चित्तं प्राप्नोति ॥ सू० २३॥
सूत्रम्-जे भिक्खू ठवणकुलाइं अजाणिय, अपुच्छिय, अगवेसिय पुवामेव पिंडवायपडियाए अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २४॥
___ छाया-- यो भिक्षुः स्थापनाकुलानि अज्ञात्वा, अपृष्ट्वा, अगवेषयित्वा पूर्वमेव पिण्डपातप्रतिज्ञया अनुपविशति, अनुपविशन्तं वा स्वदते ॥ सू० २४॥
चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'ठवणकुलाई' स्थापनाकुलानि, तत्र स्थापनाकुलम् यत्र साध्वादिनिमित्तमन्नपानादिकं स्थाप्यते तत् स्थापनाकुलम् 'अजाणिय'
For Private and Personal Use Only