________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावो उ० ३ सू०७६-७९ अस्थानेषु-उच्चारादिपरिष्ठापननिषेधः १०९ दाहे वा-क्षारकरणस्थाने, यत्र स्थानविशेषे क्षारद्रव्य (साजी खार-आदि) करणार्थ क्षारनातीयकाष्ठं दह्यते तादृशस्थानं क्षारदाह इति कथ्यते, तत्र, 'गायदाहंसि वा' गात्रदाहे वा ज्वरादिरोगाक्रान्तानां पालितपशूनां गवादीनां तत्तदङ्गावयवस्तप्तलोहशलाकया दंदह्यते तस्मिन् गात्रदाहस्थाने 'तुसदाहंसि वा' तुषदाहे वा-यत्र स्थले कुम्भकारादयः नूतनघटादीनां पाकक्रियायां तुषादिकं दहन्ति तस्मिन् तुषदाहस्थाने 'भुसदाहंसि वा बुसदाहे वा ' कडङ्गरो बुसं क्लीबे, घान्यत्वचि पुमांस्तुषः" इत्यमरः "भुसा" इति लोकप्रसिद्धस्य दाहस्थाने । एतादृशदाहस्थाने यदि 'उच्चारपासवणं परिद्ववेइ' उच्चारप्रस्रवणं परिष्ठापयति, तथा-'परिठवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७५॥
सूत्रम्-जे भिक्खू सेयाययणंसि वा पंकसि वा पणगंसि वा उच्चारपासवणं परिट्ठवेइ परिहवेंतं वा साइज्जइ ॥ सू० ७६॥
छाया-यो भिक्षुः स्वेदायतने वा, पके वा पनके वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७६॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सेयाययणंसि वा, स्वेदायतने वा-सचित्तजलमिश्रितकर्दमबहुलस्थाने 'पंकसि वा' पङ्के वा सामान्यपङ्के 'पणगंसि वा' पनके वा-जलप्रपातजनितशेवाल ('नीलन-फुलन') इति लोकप्रसिद्धस्थाने वा 'उच्चारपासवणं परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति, 'परिद्ववेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७६॥
सूत्रम्-जे भिक्खू अहिणवियासु गोलेहणियासु वा अहिणवियासु मट्टियाखाणीसु वा परिभुजमाणियासु वा अपरिभुजमाणियासु वा उच्चारपासवणं परिद्ववेइ परिठ्ठवतं व साइज्जइ ॥ मू० ७७||
छाया--यो भिक्षुः अभिनविकासु गोलेहनिकासु वा अभिनविकासु मृत्तिकाखानिषु वा परिभुज्यमानासु वा अपरिभुज्यमानासु वा उच्चारप्रेनवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ।। सू० ७७॥ . चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अहिणवियासु' अभिनविकासु-नव निर्मितासु 'गोलेहणियासु' गोलेहनिकासु-यत्र गवामवलेहनाथै लवणादिक्षारद्रव्यं स्थाप्यते यदवलिह्य गावो रुचिपूर्वकं पानीयं पिबन्ति तृणादिकं वा खादन्ति तादृशानि स्थान:नि गोलेहनिकाः कथ्यन्ते, तासु गोनिमित्तं नवनिर्मितासु गोलेहनिकासु 'अहिणवियासु वा मट्टियाखाणीमु' नवीनासु वा मृत्तिकाखानिषु यस्मात्-मृत्तिका निष्कास्यते तादृशस्थानेषु 'परिसुजमाणियासु वा अपरिभुज
For Private and Personal Use Only