________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४
निशीथसूत्रे
dsaभाष्य याचना करणे यो गमः प्रकारः प्रोक्तः स एव गमः सप्तमेऽष्टमे च सूत्रेऽन्ययूथिकादिस्त्रीणां एकत्वपृथक्त्वत इत्येकवचन - बहुवचनत एकस्याः स्त्रियाः, बह्वीनां स्त्रीणां वा पुरतोऽवभाष्य याचना - करणे स एव प्रकारो ज्ञातव्यः । पंचमं षष्ठं च सूत्रं पुंविषयकम् सप्तममष्टमं तु स्त्रीविषयकम् । एतावानेव भेदः । तत्रापि यथा पञ्चमसूत्रमेकपुरुषविषयकम्, यथा वा - षष्ठसूत्रं बहुपुरुषविषयकम् तथैव-सप्तमसूत्रमेकस्त्रीविषयकम्, अष्टमसूत्रं त्वनेकस्त्रीविषयकम् । अन्यत्सर्वं समानम् ॥ सू० ८॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् — जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुले वा परियावस वा अण्णउत्थिएण वा गारत्थिएण वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहट्ट दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय - अणुवत्तिय परिवेदिय परिवेदिय - परिजविय - परिजविय ओभासिय - ओभासिय जायइ, जायंतं वा साइज्जइ ॥ सू ९ ॥
छाया -यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकेन वा गार्हस्थिकेन वा अशनं वा पानं वा खाद्य वा स्वाद्य अभितम् (पुर आनीतम्) आहृत्य दीयमानं प्रतिषेभ्य, तमेवाऽनुवर्त्यनुवर्त्य परिवेष्टe परिवेष्टय परिजल्प्य परिजल्प्य, अवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते |९|
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेषु 'गाहाबइकुलेसु वा' गाथापतिकुलेषु 'परियावद्देसु वा' पर्यावसथेषु वा परिव्राजकावसथेषु 'अण्णउत्थि एण वा अन्ययूथिकेन वा - परतीर्थिकेन 'गारस्थिपण वा' गार्हस्थिकेन वा, अशनं वा पानं वा खाद्यं वा स्वायं वा 'अभिहर्ड' अभिहृतम् साध्वर्थं संमुखमानीतं, तत् ' आहदड' आहृत्य - गृहीत्वा 'दिज्जमाणं' दीयमानमशनादिकम् 'पडिसेहेत्ता' प्रतिषिध्य, पूर्वमभिमुखीभूय ददतं निषिध्य - प्रहणार्थ निषेधं कृत्वा पुनः - तमेव 'अणुवत्तिय - अणुवत्तिय' तमेव दातारमनुवर्त्यनुवर्त्य पञ्च- सप्त-पदगमनानन्तरमनुवर्त्तनं कृत्वा पृष्ठतो गत्वा 'परिवेदिय - परिवेढिय' परिवेष्टय - परिवेष्टय पुरतः पृष्ठतः पार्श्वतो वा स्थित्वा । 'परिजत्रिय - परिजविय' परिजल्प्य परिजल्प्य ' त्वया मदर्थमिदमशनादिकमानीतम् परिश्रमस्तव निरर्थको मा भवतु तवाऽशनादिकं ग्रहिष्यामी' - येवंप्रकारेणोक्त्वा 'ओभासिय- ओभासिय' अवभाष्याऽवभाष्य 'जायइ' याचते, 'जायंतं वा साइज्जइ' याचमानं वा एवंविधमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ९ ॥
भाष्यम् - आह दिज्जमाणं जं, पडिसेहिय पुम्बओं । पच्छा तं अणुवद्दित्ता, जायए दोसमावहे ||
For Private and Personal Use Only