SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir www. चूर्णिभाष्याषचूरिः उ०३ सू० ६-७ प्रत्यागतान्यथिकादिकमवभाज्ययाचननिषेधः ८१ छाया--यो भिक्षुः आगन्नामारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकं वा गार्ह स्थिकं वा, कौतूहलप्रतिशया प्रत्यागतं सन्तं अशनं वा पानं वा खाद्यवा स्वाधवा मवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते ॥सू०५॥ चूर्णी- 'जे मिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु वा 'आरामागारेसुवा' मारामागारेषु वा 'गाहावइकुलेसु वा' गाथापतिकुलेषु वा 'परियावसहेसु वा' पर्यावसथेषु वा 'अण्णउत्थियं वा' अन्ययूथिकं-दर्शनाऽन्तरीयं यं कमप्येकम् , 'गारस्थिय वा' गार्हस्थिकं गृहस्थं वा 'कोउहलपडियाए पडियागय समाणं' कौतूहलप्रतिज्ञया प्रत्यागतं सन्तम् कौतूहलं क्रीडादिकं-धर्मपृच्छा वा, तत्कौतूहलप्रतिज्ञया प्रत्यागतमागतं सन्तं तिष्ठन्तम् 'अण्णउत्थियं अन्ययूथिकम् 'गारत्थियं वा गार्हस्थिकं वा उपेत्य, तत्सकाशात्-‘असणं वा' अशनं बा, 'पाणं वा' पानं वा खाइमं वा' खाद्यं वा, 'साइमं बा' स्वाचं वा यदि-'ओभासिय-ओभासिय' अवभाष्याऽवभाष्य उच्चैरुच्चार्य्य तिष्ठन्तमागन्तुकं परतीर्थिकं श्रावकं वा-'भो भोः मह्यं साधवेऽन्नपानादिकं देहि' इत्थम् 'जायइ' याचते, 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५ ॥ अत्राह भाष्यकार:भाष्यम्-आगंतुगाइगेहेसु, कोउगहुँ उवद्वियं । ओभासिय जायमाणो, समणो, दोसभा हवे ॥ छाया-आगन्तुकादिगेहेषु कौतुकार्थमुपस्थितम् । अवभाष्य याचमानः श्रमणो दोषभाग् भवेत् ॥ अवचूरि:-'आगंतुगाइ.' इत्यादि। यो भिक्षुः आगन्तुकादिगेहेषु-आरामागारेषु वा गाथापतिगेहेषु वा कौतुकाथै साधोरागमनात् पूर्वमागत्य समुपस्थितं वर्तमानं परतीर्थिकं गृहस्थं वा एकमपि आभाष्योच्चस्वरेण शब्दं कृत्वा-अशन-पान-खाद्य-स्वाचादिकं याचते स श्रमणः दोषभाग भवेत् । कथमेते परतीथिकाः गृहस्था वा समागत्य स्थिता भवन्ति ? इति चेत् शृणु-केचित्--यथाभावेन, केचन कौतुकेन, केचन साधूनां दर्शनार्थम् , केचन-स्वकीयसंशयनिराकरणार्थम् , केचन-श्रावकधर्म श्रमणधर्म वा श्रोतुम्-आगच्छन्ति । एषु समुपस्थितेषु-एकतमादपिअवभाध्याऽशनादिकं याचते तस्यैते भद्रप्रान्तदोषा भवन्ति । तत्र भद्रदोषः-स्वस्य भद्रत्वेन उद्गमादिदोषदुष्टाहारग्रहणरूपः । प्रान्तदोषः अदत्तादानविषयकलोकगऱ्यारूप इति । तत्र यदि अवभाष्य कृतेपि याचने न लभ्यते तदा साधोरपमानं भवति । कथयन्ति लोकाःक्षुद्राः साधवो न लभन्ते । अदत्ते दातुरपमानं कृपणोऽयमिति ॥सू० ५ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy