________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८
Acharya Shri Kailassagarsuri Gyanmandir
२ । तृतोये शुक्रमहाग्रहवक्तव्यता ३ । चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता । पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता ५ । षष्ठे माणिभद्र देववक्तव्यता ६ । सप्तमे प्राग्भविकचन्दनानगयीं दत्तनामकदेवस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ७ । अष्टमे शिवगृहपति (तेः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ | नवमे हस्तिनापुरवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्तव्यता ९ । दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य वक्तव्यता २० । इति तृतीयवर्गाध्ययनानि ॥ ३ ॥
॥ पुष्कचुला ॥ ४ ॥
[ पृ० ६१-६५ ] चतुर्थवर्गेऽपि दशाध्ययनात्मकः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्मीइलादेवी सुरादेवीरसदेवीगन्धदेवीतिवक्तव्यताप्रतिबद्धाध्ययननामकः । तत्र श्रीदेवी सौधर्सकल्पोत्पन्ना भगवतो महावीरस्य नाट्यविधिं दारकविकुर्वणया प्रदर्य स्वस्थानं जगाम । प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियाया भार्याया अङ्गजा भूतानाम्नी अभवत् न केनापि परिणीता । पतितपुतस्तनो जाता । वर ( पक्खेज्जिया) परिवज्जिया' वरपितृप्रखेदिता भर्त्राऽपरिणीताऽभूत् । सुगमं सर्वे यावच्चतुर्थवर्गसमाप्तिः ॥
॥ वह्निा ॥ ५ ॥
[ पृ० ६६-७३ ] पञ्चमवग वह्रिदशाभिधाने द्वादशाध्ययनानि प्रशप्तानि निसढे इत्यादीनि । प्रायः सर्वेऽपि सुगमः पञ्चमवर्गः, नवरं 'चिराईए'त्ति चिरः - चिरकाल आदिनिवेशो यस्य तच्चिरादिकम् । महया हिमवंत मलयमंदमहिंदसारे'
For Private and Personal Use Only