________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
. सुन्दरबोधिनी टीका जम्बूवर्णन
"
सुधर्मणोऽनगारस्य अदूरसामन्ते - दूरं विप्रकर्षः, सामन्तं समीपं तयोरभावोऽदूरसामन्तं तस्मिन् नातिदूरे नातिनिकटे, उचिते देशे इत्यर्थः । ' उडुंजाणू ' इति - ऊर्ध्वजानुः - ऊर्ध्वे जानुनी यस्य स तथा, जाव - ( यावत् ) - शब्देन 'अहो - सिरे, कयंजलिपुडे, उक्कडासणे, झाणकोट्ठोवगए, संजमेण तवसा अप्पाणं भावेमाणे ' इत्येषां सङ्ग्रहः । अहोसिरे ' इति - अधः शिराः - नतमस्तकः, इतस्ततश्चक्षुर्व्यापारं निवर्त्य नियमित भूमिभागनिहितदृष्टिरित्यर्थः । 'कथंजलिपुढे' इति कृताञ्जलिपुटः – मस्तकन्यस्तसम्पुटीकृतहस्तः, उक्कुडासणे' इति - उत्कुटासनः उत्कुटं = भूमावलग्नपुतम् आसनं यस्य स तथोक्तः भूप्रदेशास्पृष्टपुततयोपविष्ट इत्यर्थः । ध्यानकोष्ठोपगतः - ध्यायते - चिन्त्यतेऽनेनेति ध्यानम्, एकस्मिन् वस्तुनि तदेकाग्रतया चित्तस्यावस्थापनमित्यर्थः, ध्यानं कोष्ठ इव ध्यानकोष्ठस्तमुपगतः, यथा कोष्ठगतं धान्यं विकीर्णं न भवति तथैव ध्यानत इन्द्रियान्तःकरणवृत्तयो बहिर्न यान्तीति भावः, नियन्त्रितचित्तवृत्तिमानित्यर्थः । 'संजमेण ' इति - संयमेन सप्तदशविधेन, ' तबसे 'ति - तपसा - द्वादशविधेन आत्मानं भावयन् विहरति - तिष्ठति, इति ॥ ४ ॥
--
Acharya Shri Kailassagarsuri Gyanmandir
6
For Private and Personal Use Only
१९
भण्डार श्री जम्बू अनगार श्री आर्यसुधर्मा स्वामी के पास उर्ध्वजानु किये हुए, इधर उधर न देखते हुए, दोनों हाथ जोडकर मस्तक झुकाये, उक्कुडासनसे बैठे हुए ध्यानरूपी कोठेमें स्थित, अर्थात् चित्तवृत्तिको एकाग्र करके तप और संयमसे आत्माको भावित करते हुए बैठे थे ॥ ४ ॥
ભંડાર શ્રી જંબૂ સ્વામીએ શ્રી આર્ય સુધર્મા સ્વામીની પાસે ઊર્ધ્વ જાનુ રહીને માજી-ખાજીએ નજર ન નાખતાં બે હાથ જોડીને માથું નમાવી કુડાસને બેઠેલા મનને ધ્યાનરૂપી કાઠામાં સ્થિર રાખીને અર્થાત ચિત્તવૃત્તિને એકાગ્ર કરીને તપ તથા સ ંચમથી આત્માને ભાવિત કરતા થકા બેઠા હતા. ॥ ૪ ॥