________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टीका कालो रानोके विचार
'ग्रामानुग्रामम् ' - एकस्माद् ग्रामाद् अनु = पश्चाद् यो ग्रामस्तम्, अर्थादनुक्रमेण ग्रामाद्भामान्तरं द्रवन्–विहरन्, इह - अस्यां चम्पानगर्यां विद्यमानं पूर्णभद्रद्यानम् आगतः समन्ताद् विहृत्योपस्थितः यावत्करणात् ' अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे ' एतेषां संग्रहः ।
,
6
Acharya Shri Kailassagarsuri Gyanmandir
छाया- 'यथामतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन् ' इति । 'यथे' - ति - यथाप्रतिरूपं = यथासंयमिकल्पम् अवग्रहम् = निवासार्थमुद्यानपालस्याज्ञाम् अवगृह्य = आदाय संयमेन - सप्तदशविधेन तपसा = द्वादशविधेन आत्मानं भावयन् = वासयन् संयोजयन्निति यावत्, विहरति - विराजते, तत् = तस्मात् महाफलं - महत्-विशालं फलं शुभ परिणामलक्षणम्, अत्र 'अत एवे 'तिशेषः खलु निश्चयेन तथारूपाणां शुभपरिणामरूपमहाफलजननस्वभावानां, यावच्छब्देन – “अरिहंताणं, भगवंताणं, णामगोयस्सवि सवणयाए किमंगपुण अभिगमण-वंदण - णमंसण - पडिपुच्छण - पज्जुवासणाए, एकस्सवि आरियस्स, मिस्स, सुवयणस्स सवणयाए किमंग पुण" एतेषां सङ्ग्रहः । छाया - 'अर्हतां भगवतां नामगोत्रस्यापि श्रवणतया किमङ्ग ! पुनरभिगमन-वन्दननमस्यन - प्रतिमच्छन- पर्युपासनेन, एकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य श्रवणतया किमङ्ग ! पुनः' इति । ' अर्हतां ' - नास्ति रहः = प्रच्छन्नं किञ्चिदपि येषां सर्वज्ञत्वात्तेऽईन्तस्तेषाम् ' भगवतां ' - भगः समत्रैश्वर्यादिगुणः, स विद्यते येषां ते भगवन्तस्तेषाम् । नाम च वर्धमानादि, गुणनिष्पन्नमभिधानं गोत्रं च = कश्यपादि, तयोः समाहारे नामगोत्रं, तस्य श्रवणेनापि महाफलं भवति । किमङ्ग ! पुनः - अभिगमनं - सम्मुखं गमनम् बन्दनं - गुणकीर्तनम् । नमस्यनं= पश्चाङ्गसयत्ननमनपूर्वकनमस्करणम्, प्रतिमच्छन = शरीरादिवार्ताप्रश्नः पर्युपासना = सावद्ययोगपरिहारपूर्वक निरवद्यभावेन सेवाकरणम् - एतेषां समाहारस्तथा, अयं
4
,
,
For Private and Personal Use Only