SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चितास्थाने प्रभोस्स्तूप - मकुर्वन्तो दिवौकसः । नानारत्नमयं रत्नाञ्चलशृङ्गसहोदरम् ।। ३८७ ॥ निर्वाणमहिमामेवं, कृत्वा श्रीसुव्रतेशितुः। ययुनन्दीश्वरद्वीपे, कर्तुमष्टाहिकोत्सवम् ॥ ३८८ ॥ गत्वा स्वमथ स्थानं ते, माणवस्तम्भमूर्धनि । स्वामिदंष्ट्रां न्यधुः शक्रा, भक्तिं मृर्वामित्र प्रभोः ॥३८९।। सार्द्धाः सप्ताब्दसहस्राः, कौमारव्रतयोः पृथक् । राज्ये पञ्चदशत्रिंश-दित्यायुः सुव्रतेशितुः ॥३९०॥ निर्वाणान्मल्लिनाथस्य, निवृतिः सुव्रतप्रभोः। चतुःपञ्चाशति समालक्षेष्वतिगतष्यभूत् ।। ३९१ ॥ प्रशमविमलनेत्रं कर्णपीयूषसत्रं, नवनवरसपात्रं सर्वसौख्यैकमित्रम् ।। नवभवसुपवित्रं सुव्रतस्यातिमात्रं, भवजलनिधिपात्रं नन्दतात्सच्चरित्रम् ।। ३९२ ॥ माद्यन्मुक्तिनितम्बिनीकुचयुगालङ्कारतारस्फुरत्कस्तूरीतिलको नवीनजलदच्छायं स्वकार्य वहन् । स्वच्छश्रीभृगुकच्छपत्तनसरःशृङ्गारनीलोत्पलः कल्याणानि चिराय नः प्रथयतु श्रीसुव्रतः सुव्रतः ॥३९३।। श्रीमत्सुव्रततीर्थनाथचरितं कल्याणमालावृतं, ये भव्या विनयेन नम्रशिरसः शृण्वन्ति शुद्धाशयाः। तेषां बोधिलता फलत्यविरतं सम्यक्त्वपुष्पा फलैः, कल्याणैः शुभकर्मपाकसरसैः सौहित्यभद्रङ्करैः ॥३९४|| नवमो भवः वास्तुपादिकरण A ग्रन्यसमाप्तिः इत्याचार्य-श्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रत-स्वामिचरिते महाकाव्ये विनयाङ्के कार्तिक श्रेष्ठि- स्कन्दकाचार्य-सुकोशलकीर्तिधरा-चकारितभट्रिका कथानकगर्भितो निर्वाण___ भवव्यावर्णनो नामाऽष्टमः सर्गः समाप्तः ॥छ।। शुभम् ।। प्रन्थानम् ४५५२।। For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy