SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनप्रवर! पुत्री मे, विवाहाय प्रदीयताम् । सुबुद्धिसचिवं विद्धि, राज्यभारधुरन्धरम् ॥ २६७॥ अवश्यमेव कस्येदं, दातव्या रूपबत्यपि । अहं याचे खयं विद्वन् !, कन्या परधनं यतः ॥२६८॥ ततः पूर्वोदितं श्रेष्ठी, यथातथमुवाच सः । सोऽप्याख्यदेवमस्तूचै-स्ततोऽसौ परिणायितः ॥ २६९ ॥ गुरुवाक्यमिवाऽमंस्त, तस्याः वाक्यं स धीसखा । व्यतिचक्राम नाऽप्याऽजा, तुष्टदेवोपदेशवत् ॥२७॥ अथ मन्त्र्यपि तद्भीत्या-जारतं राजमन्दिरात् । सायमेति महीपाल-मापृच्छ्य निजमन्दिरम् ॥२७॥ अन्येधुर्भूभुजा पृष्टः, प्रष्टबुद्धे कुतो द्रुतम् । गमिष्यसि प्रदोषेऽपि, निदानमिति गद्यताम् ॥ २७२ ।। ततः सद्भावनो मत्री, यथातथमुवाच सः । सुचिरं विधृतो राज्ञा, सर्वो हि परकौतुकी ॥ २७३ ॥ अथ मुक्तो नृपेणाऽगाव, स्वागारं भूरिसाध्वसः । तस्मिन् क्षणेऽस्या जज्वाल, कोपवहिरनर्गलः ॥२७॥ पिधाय सुदृढं द्वारं, शेते स्म श्रेष्ठिनन्दिनी । कोपत्रासादिवैतस्या, दूरं निद्रा पलायिता ॥ २७५ ॥ ततो बहिरसौ स्थित्वा, तेनाऽऽभाणि नतेन सा । उद्घाटय द्रुतं द्वार - मङ्कितस्तेऽस्मि किङ्करः॥२७६॥ राजाग्रहान्मम कोस-द्वारा राजीवलोचने! । राजाग्रहादिभिर्भद्रे ! व्रतभङ्गोऽपि नो भवेत् ॥ २७७॥ न भूयोऽपीदृशं कुर्वे, मन्तुमेकं क्षमख मे । प्रसीद पतितस्तेऽस्मि, पादयोः पत्तिलीलया ॥ २७८॥ इत्यादि तद्वचोवीची-वात्यया दूरया तया । एतस्याः कोपर्वलोऽथ, प्रससार समन्ततः ॥ २७९ ।। ही! अस्माभिर्विजानद्भिः, कीदृक् पापमनुष्ठितम् ? । आत्मा परवशश्चक्रे, भूपालप्रिययोरपि ॥ २८०॥ एतदाकण्य तद्वाक्यं, हृदि निर्वेददीपकम् । गिरिदाहसमः कोप-स्तस्या ऐधत विग्रहे ॥ २८१ ॥ नवमो भवा सुकोश to SEXCOM For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy