SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । . ८९ राजा-(सबहुमानम् ।) तथ्यं पथ्यं चाह भवान् । तदहमवहितोऽस्मि । विदूषकः-को एसो विजपुञ्जो विअ धगधग्गअमाणो सव्वदो वि मह अच्छी आउलेदि । (क) मत्री-परिवारपरिवृतो ज्वरराज एषः । यमनमुपरुध्य सर्वेऽपि रोगाः प्रहरन्ति । अत एवायं राजपदभागिति भिषग्व्यवहारः । कर्म-युक्तमाह मन्त्री । तथाहि । ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः । क्रोधो दक्षाध्वरध्वंसी रुद्रोनयनोद्भवः ।। ५७ ।। जन्मान्तयों मोहमयः संतापात्मापचारजः । विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ ५८ ॥ काल:-कर्मन् , नानायोनिप्विति सुष्टुक्तं त्वया । पाकलस्तद्यथेभानामभितापो हयेषु च । वान्तादानामलर्कः म्यान्मत्स्येविन्द्रमदः स्मृतः ॥ ५९ ॥ ओषधीपु तथा ज्योतिश्च॒णपा धान्यजातिषु । जलेषु नीलिका भूमावूपो नृणां ज्वरो मतः ॥ ६० ॥ राजा--पश्य सग्वे, पश्य । त्रिकूटाद्रेः कूटैस्त्रिभिरिव शिरोभिः प्रतिभयो दिशः पश्यन्दृग्भिः शशरुधिरसोदर्यरुचिभिः । त्रयाणां पादानां तृणतरुसमुच्छायनयिना मयं न्यासभूमि नमयति गदानामधिपतिः ॥ ६१ ॥ काल:-कर्मन् , पश्यायं यस्मिन्नुदेप्यति तम्य जनम्य । आलस्यमश्ममयतां पुलकोद्गमं च गाने करोति न रतिं क्वचिदातनोति । जाताच जृम्भयति सप्तिविघूर्णमल्प प्राणं तमम्बु च पिपासयतेऽनुवेलम् ॥ ६२ ॥ (क) क एष विद्युत्पुञ्ज इव धगधगायमानः सर्वतोऽपि ममाक्षिणी आकुलयति । १२ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy