SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। दयः प्रहर्तारः । तथा मांसपुत्राणां शाखोटकतैलप्रभृतयः । मेदसः पुत्राणां कफकेसरिप्रभृतयः । काल:-कर्मन् , एवं वातपित्तकफेषु वात एको रसरक्तमांसादिधातूनां शोषकः पोषकश्च । कर्म-एवमेवैतत् । धातूनां प्रकापे धातुकार्य च भिषजो वदन्ति 'कटुकादयो मांसवृद्धिहेतवः' इति । 'कटुकाद्वर्धते मांसं कषायाच्छोणितो रसः । लवणाद्वर्धते ह्यस्थि मज्जा त्वम्लात्प्रवर्धते । मधुराद्वर्धते शुक्रं तिक्तान्मेदः प्रवर्धते ॥' विदपकः—(परिवृत्यावलोकितकेन ।) अज एवं हाद जुज्झदसणम् । पेक्खदु भवं पुरट्ठिदं अच्चरिअं । (क) राजा--आर्य, किमेतत्पश्यसि । मत्री-(विहस्य ।) पश्याम्येतत् । एतत्पङ्गुद्वितयमनिलश्चारयत्याशयषु त्रिप्वश्रान्तं जरठगणिका काचिदेषा पुरस्तात् । आजान्वग्रप्रविततकुचा लोभयन्ती प्रसृते हन्तानाङ्करमनुगता सर्वदा देहभानाम् ॥ ११ ॥ काल:-सम्यगुक्तं मन्त्रिणा यत्पित्तकफी पङ्ग इति भिषक्प्रसिद्धिः । आशयेष्विति कफपित्तवातानामाशया विवक्षिताः । अपथ्यता जरठगणिकेति निरूपयन्ति । अनर्थाङ्कुर इति च तत्प्रभवरोगसमुदायम् । कर्म-साधु निरूपितम् । राजा-किमिदमप्यरिभिरेवं कृतम् । मन्त्री-कः संदेहः । श्रूयताम् । पाण्डुः स्वस्य निशम्य मत्सरमुखात्तूलायित विक्रम सेयों मामकवाचिकेन हृदये राज्ञा निषिद्धोऽपि सन् । (क) अद्यैतद्भवतु युद्भदर्शनम । पश्यतु भवाम्पुरःस्थितमाश्चर्यम । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy