________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(ततः प्रविशति गलगण्डेनानुगम्यमानः कासः ।)
(कासो जानुभ्यां प्रणम्य किंचिदुपसर्पति ।) पाण्डुः----भद्र, कीदृशो मयि राजनियोगः । कासः—(करपिहितमुखः । कर्णे ।) एवमेवम् ।
पाण्डुः-भद्र, तदर्थमेवेयं बद्धपरिकरता । तिष्ठ त्वमत्रैव। राजानमिममुदन्तमन्यमुखेन प्रापयिष्ये ।
(नेपथ्ये यामप्रहारध्वनिः ।) पाण्डुः-(श्रुत्वा सैनिकान्प्रति ।) तदहमिदानी कार्यशेषं निवर्त्य प्रकृतकार्याथै संनह्यामि । भवन्तोऽपि तावत् बिभ्राणास्तान्युपमितमहाभोगिभिर्बाहुदण्डै
र्येषां येषां दधति निजतां यानि यान्यायुधानि । खस्वस्थानेष्ववहितमनोवृत्तयस्त्यक्तशङ्काः सर्वे तिष्ठन्त्वरिपुरमभिव्याप्य सैन्याः प्रवीराः ॥ ४१ ।।
(इति निष्क्रान्ताः सर्वे ।)
इति द्वितीयोऽङ्कः ।
तृतीयोऽङ्कः। . (ततः प्रविशति पश्चाद्वद्धं पुरुषं किंकरेण विकर्षन् विचारो नागरिकः ।) नागरिकः-अङ्ग गद, कस्त्वमसि । पुरुषः—(स्वगतम् ।) किमहं ज्ञातोऽस्म्यनेन गद इति । नागरिक:-किं विचारयसि । यदि सत्यं गदोऽसि ततो मोक्ष्यसे । पुरुषः-(स्वगतम् ।) नाहमनेन ज्ञातः ।
बिभ्राणो मुखबाहुवक्षसि कृतं पुण्डूत्रयं भस्मना ____ हस्तोपात्तविशुद्धताम्रकलशो रुद्राक्षमाली गले । धृत्वा वैदिकवेषमाविशमिह स्वस्वामिना प्रेरितो
हृद्रोगोऽहमरेरवेक्षितुमना जीवस्य राज्ञः स्थितिम् ॥ १॥ अनन्तरमनेन नागरिकेण संयमितः । भवतु । एवं ब्रवीमि । (प्रकाशम् ।) आर्य, मुश्च माम् । विप्रश्निकतामुपजीव्येदं जठरहतकं पुष्णामि ।
For Private and Personal Use Only