SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः] कर्णसुन्दरी। गुर्वी धुरं दुरभियोगनिधिर्मनोभू रारूढवानविषये मनसोऽनुबन्धः । बन्धुर्न कश्चिदपि निघ्नतया स्थितिश्च हा निश्चितं मरणमेव ममेह जातम् ॥ ३५ ॥ (इति मोहमुपगच्छति ।) विदूपकः-भो, पमादो पमादो । मए पढमं जेव्व आअक्खिदं उपसप्पीअदु त्ति । (क) (राजा ससंभ्रममुपसर्पति ।) सखी-विजयताम् । विपक:-अब्बह्मण्णं अब्बह्मण्णम् । (ख) सखी-महाराअ, हत्थेण फंसीअदु जेण चेअणं पावेदि । (ग) राजा—(तथा कुर्वन् ।) विलोलत्वं चक्षुः स्टशति मुकुलावस्थमपि य हुरस्विद्यन्मध्यं कुचकलशयोरुच्छसिति यत् । प्रसीदत्युद्दामा यदपि वदनश्रीः सपुलकं तदेतस्याः संज्ञा ध्रुवमभिमुखी पक्ष्मलदृशः ॥ ३६ ॥ (पुनरवलोक्य ।) अहो सर्वावस्थाभिरव्यवधीयमानं रामणीयकमस्याः । तथा हि। भ्रूलेखा विनिटत्तनृत्तरचना मुक्ताञ्चनोदञ्चन व्यापारा कुसुमास्त्रकामुकलतामुप्याः सगोत्रीलता। मीलल्लीलमुपैति लोचनयुगं निद्रालुनीलोत्पल स्पर्धा श्वासकदर्थितोऽपि भजते बिम्बाधरः स्वां धुरम् ॥ ३७॥ विदूषकः-भोदी मम पिअवअस्सहत्थेण फंसिज्जन्ती कहं ण चेअणं पडिवजदि । (घ) (क) भोः, प्रमादः प्रमादः । मया प्रथममेवाख्यातमुपसृप्यतामिति । (ख) अब्रह्मण्यमब्रह्मण्यम् । (ग) महाराज, हस्तेन स्पृश्यतां येन चेतनां प्राप्नोति । (घ) भवती मम प्रियवयस्यहस्तेन स्पृश्यमाना कथं न चेतनां प्रतिपद्यते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy