SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । (सास्रम् ।) लीलापाङ्गतरङ्गितं तव किमप्यालम्ब्य भूयचिरा देतावत्कुपितं तृणाय यमहं मत्वा सधैर्य स्थितः तस्यैवाद्य करे त्वया विनिहितो मारस्य निःसंशयं कान्ते किं नु करोमि को नु शरणं का वा गतिः कथ्यताम्॥२१॥ (पुनः 'तस्यैव-' इत्यादि पठति ।) (नेपथ्ये ।) अयमयमुदयाद्रेर्नातिदूरे विवस्वा नयमयममृतांशुः पातकी याति चास्तम् । इयमियमुपकण्ठे त्वद्वियोगासहत्वा निवसति तरुणी ते कोक शोकं विमुञ्च ॥ २२ ॥ (श्रुतिमभिनीय सहर्षम्। नयनयोरस्रमपमृज्य।) प्रियावियोगविक्लवं गृहदीघिकाचक्रवाकं शोकारवमुखरमुखं मन्दमन्दमाश्वासयता मन्दारेण मञ्जरीवियुक्तोऽप्यहमाश्वासित इवास्मि । (हृदयं प्रति ।) हृदय, धैर्यमाकलय । इयमुपश्रुतिरवश्यं प्रियासमागमं फलिप्यति । (विचिन्त्य ।) अद्यैवाध्यवसितगमनो माधवो मञ्जरीधवः कथमेनामनादाय गच्छति । (सविमर्शम् ।) उपश्रुत्या तु पत्युरेव प्रस्थानं प्रियायाः पुनरिहैवावस्थानं सूचितम् । अतः सर्वथा प्रियासमागमेन भवितव्यम् । (पुनः सोच्छासम् ।) कथमिदमकृतसंकतस्यासंभावनीयमेव मम संभावनां गोचरयति । उत्ताम्यतोरतिचिरादपि मन्मथाने रद्यावयोर्घटनमंत्र कथंचिदासीत् । तत्रान्तरे पतिरभूत्पुनरन्तरायः ___ संगृह्यते तदपि हन्त मनोरथो मे ॥ २३ ॥ निर्याति किं न पतिरेष कुतोऽपि हेतो श्यामि वा किमहमिन्दुमुखी न भूयः । १. 'भूयस्तरां' ख-ग. २. 'कुपिते' ख. ३. 'अहमप्याश्वासित' ख-ग. ४. 'संगममाफलिष्यति' क. ५. 'संगमेन' क. ६. 'पुण्यस्य' ग. ७. 'एव' ग. ८. 'संत्रायते सपदि ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy