________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४ सञ्जीविनीचारित्रवर्द्धनीभावमबोधिनीसहिते
(चारि०) कृतोपकार मेघमाशीर्वादेनाभिनन्दयन् ब्रवीति । एतदिति-भो मेघ अनुचितप्रार्थनावर्त्मनो मे सौहार्दान्मित्रत्वभावाद्वाराविधुरो दुःख्ययमिति वा । मयि विषयेऽनुक्रोशबुद्धया कृपामत्या वा एतत्प्रियं सन्देशलक्षणं इष्टं कृत्वा प्रावृषा सम्भृत श्रीः सन् इष्टान् शान् विचर गच्छन्विहर एवं ममेव ते विद्युता सह विप्रयोगः क्षणमपि मा च भूत् । "कृपा दयानुकम्पास्यादनुक्रोशइत्यमरः ॥ १२ ॥
तं सन्देशं जलधरवरो दिव्यवाचा चचक्षे . प्राणांस्तस्या जनहितरतो रक्षितुं यक्षवध्याः । प्राप्योदन्तं प्रमुदितमुनाः साऽपि तस्थौ स्वभर्तुः
केषां न स्यादभिमतफला प्रार्थना झुत्तमेषु ॥ ५३ ।। (चारि०) यक्षवचनानन्तरं वारिदः किमकरोदित्याशङ्क्याह । तंसंदेशमिति-जनहितरतो जलधस्वरा मेघश्रेष्ठस्तस्याः प्राणान् रक्षितु तत्राऽलकां गत्वा दिव्यवाचा तस्थ गुह्यकस्य सन्देशं वार्ता प्रत्यवदन्जगाद। साऽपि स्वभर्तुर्यक्षस्योदन्तं वार्तामभिज्ञानादिना मत्वा प्रमुदितमनाः सती तस्थौ स्थिता । तेन वाक्यमात्रेण कथमेतदकारीत्याह। हि यस्मात् उत्तमेषु प्रार्थना केषामभिमतफला न स्यात । अपि तु सर्वेषामित्यर्थः ॥ १३ ॥ श्रुत्वा वा जलकदयितां तां धनशोऽपि सद्यः
शापस्यान्तं सदयहृदयः संविधायास्तकोपः । संयोज्यतो विगलितशुची दम्पती हृष्टचित्तौ
__भोगानिष्टानविरतसुखं भोजयामास शश्वत् ।। ५४ ॥ मेघसन्देशाकर्णनानन्तरं किमभवदित्याह
(चारि०) श्रुत्वेति-धनेशोऽपि कुबेरो जलदकथितां वार्ता श्रुत्वा सदयहृदयः सन् अस्तो गतः कोपो यस्य स धनेशः सद्यस्तत्क्षणं शापस्यान्तं संविधाय कृत्वा प्रातस्तुष्टचित्तौ विरचितानि शुभानि मङ्गलानि याभ्यां तो दम्पती पश्चात् शापाऽवसाने इष्टानभीष्टान् भोगान् भोजयामास ॥ १४ ॥
॥ इति श्री चरित्रवर्द्धनविरचिता मेघदूतटीका सम्पूर्णा ॥
टि---६३, ६४ श्लोको प्रक्षितौ । मल्लिनाथेन न तो। चारित्रवर्द्धनेन व्याख्याताविति समुपन्यस्तो।
For Private And Personal Use Only