________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
मेघदूत-उत्तरमेघः । संप्रति प्रकृतिदर्शनमाहत्वामालिख्य प्रणयकुपिता धातुरागैः शिलाया।
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्तावन्मुहुरूपचितैष्ठिरालुप्यते में
क्रूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ ४२ ॥ ( सञ्जी० ) त्वामिति ॥ हे प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातबो गैरिकाइयः ॥ "धातुर्वातादिशब्दादिगैरिकादिष्वजादिषु" इति यादवः ॥ त एव रागा रक्षकद्रव्याणि ॥ "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयाः । सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्" इति शब्दार्णवे । तैर्धातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं माम् । मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कतुं तथा लेखितुं यावदिञ्छामि तावदिच्छासमकालं मुहरुपचितैः प्रवृद्वैरखैरश्रुभिः कर्तृभिः ॥ "अनमश्रुणि शोणिते” इति विश्वः ॥ मे दृष्टिरालुप्यते । आवियत इत्यर्थः । ततो दृष्टिप्रतिबन्धनालेखन प्रतिबध्यत इति भावः । किंबहुना यूरोघातुकः "नृशंसो घातुकः क्रूः" इत्यमरः॥ कृतान्तो देवम् ॥ कृतान्तो यमसिद्धान्तदेवाकुशलकर्मसु' इत्यमरः ॥ तस्मिन्नपि चित्रेऽपि ॥ नावावयोः ॥ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थर्योानावौ” इति नावादेशः ॥ संग सहवास न सहते । संगमलेखनमण्यावयोरसहमानं देवमावयोः सङ्गं न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ॥ ४२ ॥
(भाव० ) मेघ ! प्रणयकुपितां ते प्रतिकृति धातुरागैः शिलायामालिख्य यावदहमात्मानं ते चरणपतितं करोमि तावदेव मुहुः प्रवृद्धर्बाष्पैमें दृष्टिशलुप्यते, मन्ये क्रूरः कृतान्तस्त. भाऽपि आवयोः सङ्गमं न सहत" इति ब्रूयाः ॥ ४२ ॥ अधुना स्वप्नप्रदर्शनमाहमामाकाशप्रणिहितभुजं निर्दयाश्लेपहेतो.
लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थल देवताना
- मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥४३॥ (सनी० ) मामिति ॥ सुप्तस्य विज्ञानं स्वप्नः ॥ "स्वप्नः सुप्तस्य विज्ञानम्" इति विग्वः ॥ संदर्शनं संवित् । “दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्षिण संविदि ॥” इति शब्दार्णवे ॥ स्वप्नसंदर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमिति महता प्रयत्नेन लब्धाया गृहीतायाः। दृष्टाया इति यावत् ॥ ते तत्र निर्दयाश्लेपो गाढालिङ्गन स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ "पष्टीहेनुप्रयोगे” इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा वाष्पविन्दवस्तरुकिसलयेषु अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न किंतु पतन्त्येवेत्यर्थः ॥ निश्चये नन्द्वयप्रयोगः । तथा चाधिकारसूत्रम्-"स्मृतिनिश्चयसिद्धार्थेषु नन्द्वयप्रयोगः सिद्धः" इति । "महात्मगुरुदेवानामनुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेद्बषम् ॥” इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणाभावसूचनाथं तरुकिसलयेषु पतन्तीत्युक्तम् ॥ ४३ ॥
For Private And Personal Use Only