________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४ सजीवनाचारित्रबद्धनीभावप्रबोधिनीसहितेउत्कण्ठ्योच्छ्वसितं हृदयं चेतो यस्याः सा तादृशी मैथिली सीता पवनतनयं हनुमन्तमिव त्वां वीक्ष्य सम्भाष्य च सम्भावनायां च विधायेत्यर्थः । अस्मदर्तुमित्रमित्यस्माद्वचनात् परमविहिता सावधाना भवन्ती सन्देश श्रोष्यति । सावधानत्वे को हेतुरित्याह । सीमन्तिनीनां स्त्रीणां सुहृदा मित्रेणोपहृतः आनीतः कान्तस्य वल्लभस्योदन्तो वृत्तान्तो सङ्गमात्संयोगात्किञ्चिन्मनाक् उनो हीनस्तत्सदृशो भवतीत्यर्थः ॥३७॥
(भाव) हे मेघ ! इत्थमाकर्ण्य सीता हनूमन्तमिव त्वां वीक्ष्य सम्माव्य च मे प्रिया सादरं सन्देश श्रोष्यति । हि सुहृदांनीतः कान्तवृत्तान्तः सीमन्तिनीनां कृते सङ्गमकल्पो भवति ॥ ३७॥ सम्प्रति संदिशतितामायुष्मन्मम च वचनादात्मनवोपक
यादेवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापत्रः कुशलमबले पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदा प्राणिनामेतदेव ॥ ३८ ॥ __(सञ्जी० ) तामिति ॥ हे आयुष्मन् । प्रशंसायां मतुप् । परोपकारश्लाध्यजीवितेत्यर्थः ॥ मम वचनं प्रार्थनावचनं तस्माच्चात्मनः स्वस्योपकतुं च परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रिया प्रति कर्मत्वेऽपि तस्योपकरोतीत्यादिवत्सम्बन्धमात्रविवक्षायामात्मन इति पष्ठी न विरुध्यते । यथाह भारविः-“सा लक्ष्मीरुपकुरुते यया परेषाम्" इति । तथा श्रीहर्षश्च-"साधूनामुपकतुं लक्ष्मी द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरित च महात्मनां श्रोतुम् ॥” इति । तथा च "क्वचित्क्वचित् द्वितीयादर्शनात्सर्वस्य तथा" इति नाथवचनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः ॥ किमित्याह । हे अबले, तव सहचरो भर्ता रामगिरेश्चित्रकूटस्याश्रमेषु तिष्ठतीति रामगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह-वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वां कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतेद्विकर्मकत्वम् तथाहि । सुलभविपदामयनसिद्धविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वाभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् "कृत्याश्च" इत्यावश्यका) ण्यत्प्रत्ययः॥३८॥
(चारि०) कुशलपृच्छाकपटेन स्वजीवितं ज्ञापयति । तामिति-हे आयुष्मन् मेघ मम वचनाद्वाक्याच्चात्मन उपहतुं च तां मद्योषां एवं वक्ष्यमाणं ब्रूयाः कथयेः । एवमिति किम् । हे अबले प्रोषितभर्तृके रामगिर्याश्रमस्थोऽव्यापनः कुशलवान् वियुक्तो दूरवर्ती सन् तव सहचरः पतिस्त्वां कुशलं पृच्छति । पृच्छति द्विकर्मकः । एतदेव किमिति । प्रष्टव्यमत आह । सुलभा विपदो येषां तेषां प्राणिनामेतदेव कुशलमेव पूर्वभाष्यं प्रथमप्रार्थनीयम् । आयुष्मन्नित्यनेन त्वयि जीवति सा चाहं च जीवाव इत्यसूचि । "कुशलं क्षेममस्त्रियामित्यमरः" ॥३८॥ :
(भाव०) हे मेध ! त्वं तामेवं ब्रूयाः, यत् रामगिर्याश्रमस्थस्तव प्रिया कुशली ते कुशल पृच्छति । विपन्नानामिदमेव पूर्वाभाष्यम् ॥ ३८॥ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
साणाश्रुद्रुतमविस्तोत्कण्ठमुत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्चासिना दूरवर्ती
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ ३९ ॥ (सञ्जी० ) अड्रेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं शक्यत इत्याह । वैरिणा
For Private And Personal Use Only