________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहितेच्छील्ये णिनिः ॥ निःश्वासेन विक्षिपन्तीं चालयन्तीम् । तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि साक्षात्संभोगासंभवादिति भावः । मत्संभोगः कथं केनापि प्रकारेणोपनयेदामच्छेत् । इत्याशयेनेति शेषः । इति नैवोक्तार्थत्वादप्रयोगः। “प्रयोगे चापौनरुक्त्यम्" इत्यालंकारिकाः ॥ प्रार्थनायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्वावकाशामाक्रान्तस्थानाम् । दुर्लभामित्यर्थः । निद्रामाकाङ्क्षन्तीम् । खेदातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लजात्यागो व्यज्यते ॥ २८॥ - (चारि० ) निःश्वासेनेति-अलकं नूनं निःश्चासेन विक्षिपन्ती तां सुखयितुं पश्येति सम्बन्धः । अधरकिसलय विश्नाति । उष्णत्वात् । कीदृशमलकम् । शुद्धस्नानात्परुषं कर्कशम् । तथा आगण्डं कपोलस्थलपर्यन्तं लम्बते तत् । स्वप्नजोऽपि मत्संयोगः कथमपि भवेदिति हेतोः निद्रामाकासन्ती । कीदृशीं निद्रां नयनसलिलस्योत्पीडः पूरस्तेन रुद्धोऽवकाशो यस्यास्ताम् ॥ २८ ॥
(भाव०) हे मेघ ! प्रबलैनि:श्वासै गण्डभागे लम्बमानान् रूक्षानलकान् विक्षिपन्ती, स्वप्नसम्भोगाकांक्षया निद्रामभिलषन्ती मे प्रियां मन्सन्देशैः सुस्वय ॥२८॥ आये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्ती
. गण्डाभोगात्कठिनविषमामेकवर्णी करेण ॥२९॥ (सञ्जी० ) आद्य इति ॥ आये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा प्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वेष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्श सति मूलकेशेषु सव्यथामित्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् ॥ खञ्जकुब्जादिवदन्यतरस्य प्राधान्यविवक्षया "विशेषणं विशेष्येण बहुलम्" इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ " पूर्वकाल"-इत्यादिना तत्पुरुषः। तां शिखाम् । अयमिता अकतितोपान्ता नखा अस्याः तेन करण गण्डाभोगात्कपोलविस्तारादसकन्मुहुर्मुहुः सारयन्तीमपसारयन्तीम् । “तां पश्य” इति पूर्वेण संबन्धः । असकृत्सारणाञ्चित्तविभ्रमदशा सूचिता ॥ २९ ॥
(चारि० ) कैश्चित् श्लोकैस्तामेव वर्णयति। आद्य इति-अयमिता असंस्कृता नखा यस्य तेन करेण तामेकवेणी गण्डस्य कपोलस्याऽभोगात्पुलकादसकद्वारं वारं सारयन्ती अपसारयन्तीं तां अलं सुखयितुं पश्येति सम्बन्धः । तामिति काम् । आये प्रथमे विरहदिवसे शिरोदाममालां हित्वा या बद्धा तथा शापस्यान्ते विगलिता गता शुक् शोको यस्य स तेन मया उद्वेष्टनीया मोचनीया । स्पर्शस्य त्वगिन्द्रियस्य क्लिष्टां बाधिकां, कठिना चासौ विषमा चोचावचा ताम् ॥२९॥
(भाव० ) हे मेध ! विरहदिवसे मया बद्धां विरहान्ते च मयैवोद्वेष्टनीयां रूक्षालकामेकवेणी करेण कपोलप्रदेशान्मुहुर्मुहुरपसारयन्ती मत्प्रियां मत्सन्देशैः सुखयः॥ २९ ॥ सा संन्यस्ताभरणमवला पेशल धारयन्ती
शय्योत्सने निहितमसकृद् दुःखदुःखेन गात्रम् । वामप्यत्रं नवजलमये मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरान्तिरात्मा ॥३०॥
For Private And Personal Use Only