________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४ सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहितेपृच्छन्ती वा मधुरवचनां सारिका पञ्जरस्था
कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२२॥ (सनी)आलोकेति॥ हे मेघ!सा मत्प्रिया बलिषु नित्येषु प्रोषितागमनाथेषु च देवताराधनेषु व्याकुला व्यापृता वा। विरहेण तनु कृशं भावगम्यम् । तात्कार्यस्यादृष्टचरत्वात्संप्रति संभाबनयोत्प्रेक्ष्यामित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् । यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा लेख्यत्वासंभवात् । अक्षय्यकोशे "आलेख्येऽपि च सादृश्यम्" इत्यभिधानात् । लिखन्ती । कचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः । एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंशसंजीविन्याम् “सादृश्यप्रतिकृतिदर्शनैः 'प्रियायाः” इत्यत्र । मधुरवचनां मजुभाषिणीम् । अत एव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके । भतः स्वामिनः स्मरसि कञ्चित् । “कञ्चित्कामप्रवेदने" इत्यमरः । भर्तारं स्मरसि किमित्यर्थः । "अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी। स्मरणे कारणमाह-हि यस्मात्कारणात्त्वं तस्य भर्तुः । प्रीणातीति प्रिया ॥ "इगुपधज्ञाप्रीकिरः क” इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छन्ती वा ॥ वाशब्दो विकल्पे॥
"उपमायां विफल्पे वा" इत्यमरः ॥ ते तवालोके दृष्टिपथे पुरा निपतति । सद्यो निपतिप्यतीत्यर्थः ॥ "स्यात्प्रबन्धे पुरातीते निकटागामिके पुरा" इत्यमरः ॥ "यावत्पुरानिपातयोलट" इति लट् ॥ २२ ॥
(चारि०) लक्षणान्तरैस्तां ज्ञापयति । आलोक इति-भो जलद सा स्त्री ते तवाऽऽलोके दर्शने सति पुरा निपतति । त्वां विलोक्य सा भुवि पतिष्यतीत्यर्थः । यावत्पुरानिपातयोलडिति भविष्यदर्थे लट् । कीदृशी मदागमनाय देवताभ्यो यदलिदानं नैवेद्यवितरणं तेन व्याकुला वा । तथा मत्सादृश्यं मद्विषयमालेख्यं लिखन्ती वा । कीदृशं विरहेण वियोगेन योऽसौ तनुताया दुर्बलस्य भावश्चित्तं तेन गम्यं विरहात्तादृश्यसाम्प्रतमन्यथात्वमिति । उत्प्रेक्षया गम्यमिति भावः । हे रसिके हे कृपारसोपस्कृतमानसे त्वं कच्चिद्गर्तुः स्मरसि । त्वं तस्य म द्वल्लभस्य प्रियेति मधुरवचनां मनोरमवाक्यां पारस्थां सारिकां पृच्छन्ती वा । भर्तुरिति अधीगर्थे कर्मणि षष्टी । "आलोको दर्शनद्योताणवित्यमरः । 'कच्चिदिष्टप्रियप्रश्न' इत्यभिधानचिन्तामणिः । आलेख्येऽपि च सादृश्यमिति यादवः । पञ्जरः पक्षिरक्षाकरः पदार्थः ॥२२॥
( भाव० ) हे मेघ ! सा मे प्रिया देवाराधनव्यग्रा,वा, मत्सादृश्यं लिखन्ती वा, सारिकया सहालपन्ती वा ते दृष्टि पथं यास्यति ॥ २२ ॥ उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां
मद्गोत्राङ्क विरचितपदं गेयमुद्गातुकामा । तन्त्रीमाः नयनसलिलैः सारयित्वा कथंचिद्
भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥२३॥ ( सनी० ) उत्सङ्गेति ॥ हे सौम्य ! साधो ! मलिनवसने । “प्रोषिते मलिना कृशा" इति शास्त्रादित्यर्थः उत्सङ्ग स्वरौ वीणां निक्षिप्य। मम गोनं नामाङ्कश्चित्रं यस्मिस्तन्मद्गोत्रा मन्नामाङ यथा तथा । “गोत्रं नाम्नि कुलेऽपि च” इत्यमरः । न विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानार्ह प्रबन्धादि ॥ "गीतम्" इति पाठे स एवार्थः ॥ उद्गातुमुचैर्गातुं कामो
For Private And Personal Use Only