________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२
सञ्जीवनीचारित्रवर्द्धनीभाव प्रबोधिनी सहिते
लायाम् । शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः । " शिखरं शैलवृक्षाग्रकक्षापुलककोटिपु ” इति विश्वः । शिखरिणो दशना दन्ता यस्याः सा । एतेनाख्या भाग्यवत्त्वं पत्यायुष्करं च सूच्यते । तदुक्तं सामुद्रिके - स्निग्धाः समानरूपाः सुपङ्कयः शिखरिणः श्रिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् । ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः । दन्ताः शिखरिणो यस्या दीर्घ जीवति तत्प्रियः ।" इति । पक्कं परिणतं बिम्ब बिम्ब फलfaraisष्टो यस्याः सा पक्वबिम्बाधरोष्टी । “शाकपार्थिवादित्वान्मध्यमपदलोपी समासः " इति वामन: । "नासिकोदरौष्ट-" इत्यादिना ङीप् ! मध्ये क्षामा कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणनीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता । एतेनास्याः पद्मिनीत्वं व्यज्यते । पद्मिनील क्षण प्रस्तावे - " चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे" इति । निम्नानाभिर्गम्भीरनाभिः । अनेन नारीणां नाभिगाम्भीर्यान्मदनातिरेक इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी, न तु जघनदोषात् । स्तानाभ्यां स्तोकन पदवनता, न तु वपुर्दापात् । युवतयएव विषयस्तस्मिन्युवतिविषये । युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथमशिपमिवस्थितेत्युत्प्रेक्षा । प्रथमनिर्मिता युवतिरियमेवेत्यर्थः । प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्माणसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिन्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवंभूता या स्त्री यन्त्रान्तर्भवने स्यात् । तत्र निवसेदित्यर्थः । तामित्युत्तरश्लोकेन संबन्धः ॥ १९ ॥
( चारि०) लोकद्वयेन स्वकीयप्रेयस्या लक्षणं दर्शयति । तन्वीति -- तत्रालये तन्वी कुशतनुः श्यामा यौवनमध्यस्था हरितवर्णा वा पोडशवार्षिकी । ' श्यामा यौवनमध्यस्थेति वाक्यात् । शिखराणि दाडिमबीजानीच दशना यस्याः सा । शिखरिणः कोटिमन्तो दशना दन्ता यस्या इति वा । शिखरं वज्रं तद्वदुज्वलदर्शनेति वा । 'पक्कदाडिमबीजाभ माणिक्यं शिखरं विदुरित्यभिधानचिन्तामणिः । पकविम्बवदधरोष्टो यस्याः सा । मध्ये मध्यदेशे क्षामा कृशोदरी । चकिता त्रस्ता या हरिणी तद्वत्प्रेक्षत इति प्रेक्षणा । निम्ना नाभिर्यस्याः सा । श्रोणीभारादलसं गमनं यस्याः सा । स्तनाभ्यां स्तोकं स्वल्पं नम्रा युवतिविषये धातुर्ब्रह्मण आद्या सृष्टिः प्रथमसर्ग इव स्थिता । मध्ये क्षामेति 'अमूर्द्ध मस्तका' दित्यलुक् । प्रेक्षणीति कर्त्तर्युपमान इति णिनिः । एवं विधा या स्त्री स्यात् यदि तिष्ठति तां जानीया इत्युत्तरत्र सम्बन्धः । स्यादिति आख्यातप्रतिरूपकमव्ययम् । यद्यर्थेऽव्ययम् ॥ १९ ॥
( भाव०) हे मेघ ! तत्र गृहे कृशाङ्गी लोकोत्तरलावण्या स्रष्टुराद्या सृष्टिरिव या वनिता दृश्येत सैव मम प्रियेति जानीहि ॥ १९ ॥
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभृते मयि सहचरे चक्रवाकीमिवैकाम् । गाढieaori गुरु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २० ॥
( सञ्जी० ) तामिति ॥ सहचरे सहचारिणि अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दूरीभूते सति चक्रवाकी चक्रवाकवधूमिव । " जातेरarraversaryधात्" इति ङीप् । परिमितकथां परिमितवाचम् | एकामेकाकिनीं स्थितां तामन्तर्भवनगतां मे द्वितीयं जीवितं जानीथाः । जीविततुल्यो मत्प्रेयसीमवगच्छेरित्यर्थः ॥ "तन्वी” इत्यादिपूर्वलक्षणैरिति शेषः । लक्षणानामन्यथाभावभ्रमाशङ्कयाह - गाढेति । गाढोत्कण्ठां प्रबलविरहवेदनाम् "रागे त्वब्धविपये वेदना महती तु या । संशोषणी तु
For Private And Personal Use Only