________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६० सभीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते
(सञ्जी० ) तन्मध्य इति । किं चेति चार्थः । तन्मध्ये तयोवृक्षयोर्मध्येऽनतिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुणवेणुसच्छायैर्मरकतशिलाभिर्मूले बद्धा । कृतवेदिकेत्यर्थः । स्फटिकं स्फटिकमयं फलकं पीठं यस्याः सा काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिनिवासदण्डः । अस्तीति शेषः ! शिक्षा भूषणध्वनिः । “भूषणानां तु शिञ्जितम्” इत्यमरः । भिदादित्वादङ् । शिक्षिधातुरयं तालव्यादिर्न तु दन्त्यादिः । शिक्षाप्रधानानिविलयानि तैः सुभगा रम्यास्तैस्तालैः करतलवादनैर्मम कान्तया तितो वो युष्माकं सुहृत्सखा नीलकण्ठो मयूरः । “मयूरो बहिणो वहीं नीलकण्ठो भुजङ्गभुक्" इत्यमरः । दिवसविगमे सायंकाले यां यष्टिकामध्यास्ते ! यष्टयामास्त इत्यर्थः । “अधिशीङ्स्थासां कर्म" इति कर्मत्वाद्वितीया । “तत्रागारम्" इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुक्तम्--"तदुदात्तं भवेद्यत्र समृद्ध वस्तु वर्ण्यते” इति ॥ न चैपा स्वभावोक्ति विकं वा, तत्र यथास्थितवस्तुवर्णनात् । अत्र तु "कविप्रतिभोत्थापितसंभाव्यमा नैश्वर्यशालिवस्तुवर्णनादारोपितविषयत्वमिति ताभ्यामस्य भेदः” इत्यलङ्कारसर्वस्वकारः ॥१६॥
(चारि०) भूयोऽपि निजालयं चिन्हान्तरेण ज्ञापयति-तन्मध्य इति। तन्मध्ये गृहमध्ये काञ्चनस्य विकारः काञ्चनी च वासयष्टिनिवासदण्डोऽस्ति । चकार उक्तसमुच्चये । कीदृशी स्फटिकमयं फलकं यस्याः सा । तथाऽनतिप्रौढा नवा वंशास्तद्वत्प्रकाशन्ते तैमणिभिर्मरकतेंमूले बद्धा । भो मेघ दिवसविगमे दिनावसाने यां वासयष्टिं वो युष्माकं सुहृन्मित्रं नीलकण्ठो मयूरोऽध्यास्ते । कीदृशः । मे मम कान्तया स्त्रिया शिक्षा शिञ्जितं तत् युक्तानि वलयानि तैः सुभगै रम्यैस्तालैः करतलास्फालनवाद्यैः कृत्वा नर्तितः । अध्यास्त इति 'अधिशीस्थासां कर्मः। सिञ्जवलयसुभगेरित्यशुद्धः पाठः । सिजि अव्यक्ते शब्दे । इत्यस्यात्मनेपदित्वात् । यद्वा सिञ्जन सिञ्जः । घजथे कविधानम् । सर्वप्रातिपदिकेभ्य इत्येके । इत्याचारे क्विम् ।तदन्तात् शतृप्रत्ययः ॥ १६ ॥
(भाव) हे मेघ ! रक्ताशोकबकुलयोर्मध्ये स्फटिकफलकाङ्का मणिजटिता सुवर्णमयी वासयष्टिरस्ति । सायं मम प्रियया तालैतितो मयूरो यामध्यास्ते ॥ १६ ॥ एभिः साधो ! हृदयनिहितलक्षणैर्लक्ष येथा
द्वारोपान्ते लिखितवपुषौ शङ्खपनौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
मूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥१७॥ ( सञ्जी) एभिरिति ॥ हे साधो निपुग ॥ साधु समर्थो निपुणो वा” इति काशिकायाम् । हृदयनिहितैः अविस्मृतरित्यर्थः ॥ एभिः पूर्वोक्तलक्षणैस्तोरणादिरभिज्ञानारोपान्ते । एकवचनमविवक्षितम् ॥ द्वारपाश्र्वयोरित्यर्थः ॥ लिखिते वपुषी आकृती ययोस्तौ तथोक्तोशङ्खपवूमौ नाम निधिविशेषौ ॥ "निधिर्ना शेवधिभेदाः पद्मशंखादयो निधेः" इत्यमरः ॥ दृष्ट्वा च नूनं सत्यमधुनेदानीम् । "अधुना" इति निपातः । मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्ति भवन मद्गृहं लक्षयेथा निश्चिनुयाः, तथाहि । सूर्यापाये सति कमलं पद्मं स्वामात्मीयामभिख्यां शोभाम् “अभिरख्या नामशोभयोः" इत्यमरः । न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः ॥ १७ ॥
(चारि०) स्वभवनकथनचिन्हमुपसंहरन्नाह-एभिरिति । हे साधो जलद । एभिः हृदयनि
For Private And Personal Use Only