________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२ सीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहितेरिहारेण पुष्पादिधारणकथनेन च तवत्यानां नितम्बिनीनां सुकुमारत्वं नागरकत्वं चासुचि । वधूर्जाया स्नुषा स्त्रीचेत्यमरः । अलकं बालकुन्दानुविद्धमित्यसदृशः पाठः । अलकाश्चूर्णकुन्तला इति पुंस्त्वनिर्देशात् । प्रक्रमभङ्गन्दोषपोषप्रसङ्गाच्च । यद्यपि कुन्दपुष्पं शिशिरचिन्हं तथाऽपि हेमन्तस्यापि, हेमन्ते उत्पत्तेः । शिशिरे प्रौढीभावात् अतो बाल इति प्रयोगः । सर्वत्र जातावेकवचनं ज्ञेयम् ॥२॥
(चारि०) आनन्दोत्थमिति-यत्र पुरि वित्तेशानां यक्षाणां नयनसलिलं नेत्रजलं आनन्दोत्थं हर्षोत्पन्न अन्यैनिमित्तैः शोकसन्तापादिभिर्न । इष्टसंयोगेन साध्यानिवारणीयात् । कुसुमशरः कामः तस्माजातात्तापादन्यस्तापोन । प्रणयकलहादन्यत्र विप्रयोगस्य वियोगस्योपपत्तिः सद्भावो न । तथा यौवनादन्यद्वयश्च न खल्वस्ति ॥
(भाव) मेव ! यत्राऽलकायां विलासिनोना हस्ते कमलम् , केशपाशे कुन्दशोभा, मुखे लोध्रपरागलेपः चूडायां कुरवक, कण शिरीष सीमन्ते नीपं च समं सर्वर्तुसमाहारज्ञान जनयति तामलकां व्रज ॥२॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ३ ॥ (सञ्जी० ) यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताडनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बान्येव कुसुमानि ते रचितानि परिष्कृतानि ॥ "ज्योतिस्तरानिभाज्वालाहपुत्रार्थाध्वरात्मसु" इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राय । त्वद्गम्भीरध्वनिरिव ध्वनियेषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥"पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले” इत्यमरः॥शनकैर्मदमन्दमाहतेषु सत्सु॥ एतच्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूत कल्पवृक्षस्य कातितार्थदत्वान्मध्वपि तत्र प्रसतम् । रतिः फलं यस्य तदतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ "तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाद्वयादाविन्दद्रुममोरटेक्षुकदलीगुल्मप्रसूनैर्युतम् । इत्थं चेन्मधुपुष्पभङ्गयुपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु॥ इति मदिरार्णवे ॥३॥
(चारि०)भूयोऽपि वर्णनेन तमुत्साहयति । यस्यामिति-यस्यामलकायामुत्तमाः स्त्रियः सहाया येषां ते तादृशाः सन्तो यक्षा हयंस्थलानि एत्य प्राप्य पुष्करेषु वाद्यभाण्डमुखेषु शनकैराहतेषु सत्सु रतिः फलं यस्य तत् । कल्पवृक्षात्प्रसूतं जातं मधु मद्यमासेवन्ते आस्वादयन्ति । कीदृशाणि हर्यस्थलानि सितमणिमयानि । स्फटिकमणिरचितानि । अत एव ज्योतिषां नक्षत्राणां छायाः प्रतिबिम्बान्येव कुसुमरचनानि । कीदृशेषु पुष्करेषु तवेव गम्भीरो ध्वनियेषां तेषु "पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले व्योनि खड्गफले पदूमे तीथौषधिविशेषयोरित्यमरः ॥३॥
(भाव) हे मेघ ! यत्राऽलकायां स्त्रीसहचरा यक्षाः सितमणिमयानि हर्म्यस्थलान्यारा त्वद्गम्भीरध्वन्यात्मके पुष्करेऽभिहन्यमाने सति कल्पतरूद्भवं मद्यमासेवन्ते तां ब्रज ॥३॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि.
मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।
For Private And Personal Use Only