________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः । भ्यां नयनाभ्यां प्रेक्षणीयां शोभा भवित्री भाविनीमुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रौती पूर्णापमालेकारः ॥ ५९॥
(चारि०) उत्पश्यामीति-भो मेघ त्वयि तटगते तट प्राप्ते सति तस्याद्रेः कैलासस्यातिरमणीयत्वात स्तिमित निश्चलैनयनः प्रेक्षितुं योग्यां भवित्री भविष्यन्ती शोभामुत्पश्यामि । उत्प्रेक्षते । कस्मिन् सति कस्येव । मेचके नीले वाससि अंसन्यस्ते सति हलं सीरं बिभर्तीति हलभृतो बलभद्रस्येव कीदृशे त्वयि। स्निग्धं च तत् भिन्न विदारितं यदानं तद्वद्भाति। कीदृशस्य कैलासस्य सद्यः कृत्तश्छिन्नश्चासो द्विरदस्य दन्तस्य छेदस्तद्वद्गौरस्य । कृष्णे नीलेसित श्यामकालश्यामलमेचका इत्यमरः ॥ ५९॥
(भाव० ) हे मेघ! गौरस्य कैलासस्य तटे कृष्णवणे त्वयि स्थिते सति भवदाक्रान्तशृङ्गः स कैलासः स्कन्धस्थितश्यामबस्त्रो गौरवर्णा बलराम इव शोभिष्यते ।। २९॥ हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु माणितटारोहणायाग्रयायी ॥ ६० ॥ (सजी० ) हित्वेति ॥ तस्मिन् क्रीडाशैले कैलासे ॥ "कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडा) निर्मिताः शंभादेवैः क्रीडादयोऽभवन्” इति शंभुरहस्ये ॥ शंभुना शिवेन भुजग एव वलयः काणं हित्वा गोर्या भीरुत्वात्त्यक्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तग्रियायी पुरोगतस्तथा स्तम्भित्तो धनीभावं प्रापिन्तोऽतर्जलस्यौघः प्रवाहो यस्य स तथाभूतः । शृङ्गाणां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् मणीनां तटं मणितट तस्यारोहणाय सोपानत्वं कुरु । सोपानभावं भजेत्यर्थः ॥ ६०॥
(चारि०) तत्र हितमुपदिशति-तस्मिन्निति । हे पयोद तस्मिन् क्रीडाशैले कैलासे भुजगवलयं सर्पभूषणं हिंत्या त्यक्या शम्भुना दत्तहस्ता सती गौरी यदि पादचारेण विहरेत् । नदा भङ्गा विभाः शकलानि अस्य स भङ्गी भक्त्या विरचितं निर्भिद्य रचितं वपुर्यस्य स तथा। स्तम्मितोऽन्तर्गतस्य जलस्यौधः प्रवाहो येन तादृशः सन् आरोहणाय सोपानत्वं निःश्रेणित्वं कुरु । ॥६०॥
( भाव० ) हे मेव ! तत्र कैलासे प्रातर्धसणार्थं निर्गतायाः सर्पकणरहितं शिवहस्तमवलम्ब्य विचरन्त्या गौर्या मणितटारोहणाय सोपानात्मा भव ॥६०॥ तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुक्तयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घमंलब्धस्य न स्या
क्रीडालोलाः श्रवणपरुषैजितैर्भीषयेस्ताः॥ ६१ ॥ ( सनीः ) तत्रेति ॥ तत्र कैलासेऽवश्यं सर्वधा सुरयुवतयो वलयकुलिशानि कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते ॥ तैरुद्धहनानि प्रहारास्तैरुतीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, घमें निदाघे लब्धस्य ॥ धर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिकमेघत्वाद्वा । यथोक्तम्-"आषाढस्य प्रथम-" इति ॥ तव ताभ्यः सु
For Private And Personal Use Only