________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते(सभी० ) तत्रेति ॥ तत्र देवगिरी नियता वसतिर्यस्य तम् । नित्यसनिहितमित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसंतुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेघः । पुष्पमेधीकृतात्मा कामरूपत्वात्पुष्पवर्युकमेघीकृतविग्रहः सन्व्योमगङ्गाजलाः । पुष्पासारैः पुष्पसंपातेः ॥ “धारासंपात आसारः" इत्यमरः ॥ भवान्स्वयमेव नपयत्वभिषिञ्चतु । स्वयंपूजाया उत्तमत्वादिति भावः ॥ तथा च शंभुरहस्ये--"स्वयं यजति चेदेवमुत्तमा सोदरात्मजैः । मध्यमा या यजेभृत्यैरधमा याजनक्रिया ॥” इति । स्कन्दस्य पूज्यत्वसमर्थनेनार्थनार्थान्तरं न्यस्यति-रक्षति ॥ तत् भगवान् स्कन्द इत्यर्थः । विधेयप्राधान्यानपुंसकनिदेशः ॥ वासवस्येति वासव्यः ॥ "तस्येदम्" इत्यण ॥ तासां वासवीनामैन्द्रीणां चमूनां सेनानां रक्षाहेतो रक्षायाः कारणेन । रक्षार्थमित्यर्थः ॥ “षष्ठी हेतुप्रयोगे” इति षष्टी ॥ नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वन्हिस्तस्य मुखे संभृतं संचितम् । आदित्यमतिक्रान्तमत्यादित्यम् ॥ “अत्यादयः क्रान्ताद्यर्थे द्वितीयया” इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैवमूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शंभुरहस्ये-"गवां पश्चादूद्विजस्याघ्रिागिनां हृत्कर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवन्हिवाजिनाम् ॥” इति ॥ ४३ ॥
(चारि०) तत्रेति-भो मेघ तत्र देवगिरौ नियता निश्चला वसतिर्यस्य स तं स्कन्दं भवान् पुष्यासारैः पुष्पाण्येव आसारा धारासम्पातास्तैः स्नपयतु। कीदृशैः व्योमगङ्गाजलाद्रः व्योन्नि आकाशे या गङ्गा तस्याः जलं तेन आर्द्रास्तैः। भवान्कीदृशः। पुष्पमेधीकृतात्मा । अपुष्पमेघः पुष्पमेघः कृतः पुष्पमेघीकृत आत्मा येन सः पुष्पमेवीकृतात्मा । किमिति पूज्योऽयमित्यत आह-हि यत वासवीनां वासवस्य अमूः वासव्यस्तासां इन्द्रसम्बन्धिनीनां चमूनां सेनानां रक्षार्थ नवशशिनं कलामात्रं चन्द्रं बिभर्तीति नवशशिभृतेन महादेवेन हुतवहमुखे अग्निमुखे सम्भृतं निक्षिप्तं कीदृशम् । अत्यादित्यं आदित्यमतिक्रान्तं अत्यादित्यम् । पूर्व तारकासुरनाशाय वृन्दारकन्नैः मूर्धाभिरभिवन्य प्रार्थितेन महेशेन स्त्रकोयवीय पार्वत्यां समभूतं पश्चात्तस्या अशक्तिमालोक्य वन्हिमुखे न्यक्षेपि। ततः स्कन्द उत्पन्नः सन् देवाचितः सन्नत्रैव देवगिरी वसामीति प्रतिज्ञामकरोदिति द्रष्टव्यम् ॥ ४३ ॥
(भाव०) हे मेघ ! तत्र देवसेना रक्षणाथं स्थितं वह्निमुखनिपिक्तशिवतेजःस्वरूपं भगवन्स स्कन्दं मन्दाकिनीजलाः पुष्परभिषिञ्च ॥ ४३ ॥ ज्योतिर्लेखावलयि गलितं. यस्य. बह भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूर
पश्चादद्रिग्रहणगुरुभिर्जितै तयेथाः ॥ ४४ ॥ ( सञ्जी० ) ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां वलयं. मण्डल यस्यास्तीति तथोक्तम् गलितं भ्रष्टम् । न तु लोल्यात्वयं छिन्नमिति भावः । यस्य मयूरस्य बह पिच्छम् । "पिच्छबहे नपुंसके" इत्यमरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगे यथा तथा करें करोति । दलेन सह धारयतीत्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलाह कणं करोति । विबन्तात्सप्तमी ॥ दलं परिहृत्य तत्स्थाने बह धत्त इत्यर्थः ॥ नाथस्तु "कुवलय इलक्षेपि” इति पाठमनुसत्य "क्षेपो निन्दापसार वा" इति व्याख्यातवान् ॥ हरशशिरुवा हरशिरश्चन्द्रिका धौतायाझं स्वतोऽपि शौक्यादतिधवलित
For Private And Personal Use Only