________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ सजावनीचारित्रबर्द्धनामावप्रबोधिनीसहिते
(सञ्जी०) गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्यते ॥ तस्याः प्रसन्नेऽनुरक्तत्वाहोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि। प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ "सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे । तुरीयांशे श्रीमति च सुभगः” इति शब्दार्णवे ॥ ते तव छाया चासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते। अपिशब्दात्प्रवेशमनिच्छोरपीति भावः। तस्माच्छायाद्वारापि प्रवेशावश्यंभावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युल्लुण्ठनान्येव प्रेक्षितान्यवलोकनानि ॥ "त्रिषु स्याटुलं शीघ्रम्" इति विश्वः॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धाात् । वैयात्यादिति यावत्। मोघीकर्तुं विफलीकतुं नार्हसि । नानुरक्ता विप्रलब्धव्येत्यर्थः ॥ धूतलक्षणं तु-"लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपत्यरक्तां यत्नेन रक्तां धूर्ती विमुञ्चति ॥” इति ॥ ४०॥
(चारि० ) गम्भीराया इति । भो मेघ, गम्भीरायाः गम्भीरानाम्न्याः सरितो नयाः चेतसीव प्रसन्ने पयसि ते छायात्मापि प्रतिबिम्बमपि प्रवेशं लप्स्यते प्राप्स्यति । कीदृशः प्रकृत्या स्वभावेन सुभगः सुन्दरः । तस्मात्कारणात् अस्या नद्याः कुमुदवद्विशदानि निर्मलानि चटुलाश्चञ्चला ये शफरोमत्स्यविशेषास्तेषामुद्वर्तनान्येव प्रेक्षितानि विलोकितानि धैर्यात् मोघीकतुं निष्फलानि विधातुं नार्हसि । न योग्यो भवसि । अतो मम कार्यस्य विलम्बो भविष्यतीत्यर्थः ॥४०॥
(भाव०) हे मेघ ! प्रसन्ने गम्भीरायाः पयसि छायात्मना प्रविष्टं त्वामियं गम्भीरा चपलमीनोल्लुण्ठनात्मकै वीक्षणैर्द्रक्ष्यति । त्वया च तान्यस्या अवलोकितानि न विफलीकर्तव्यानि ॥ ४०॥ तस्याः किंचित्करघृतमिव प्राप्तवानीरशाखं
नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे सम्बमानस्य भावि
ज्ञातास्वादो विकृतजघनां को विहातुं समर्थः ॥ ४१ ॥ ( सञ्जी० ) तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वेतसशाखा येन तत्तथोक्तमत एव किंचिदीपत्करतं हस्ताक्लम्बितमिव स्थितम् । मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः कटियेन तत्तथोक्तम् ॥ "नितम्बः पश्चिमे श्रोणिभागेऽद्रिकटके कटो" इति यादवः ॥ नीलं कृष्णवर्ण तस्या गम्भीरायाः सलिलमेव वसन नीत्वाऽपनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापविनोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्लम्बमानस्य । अन्यत्र जपनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृछ्रण भावि ॥ कृच्छ्रत्वे हेतुमाह-ज्ञातेति ॥ ज्ञातास्वादोऽनुभूतरसः कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् "जघनं स्यात्कटौपूर्वश्रोणिभागापरांशयोः" इति यादवः ॥ विहातुं त्यक्तुं समर्थः। नकोपीत्यर्थः॥४१॥
(चारि०) तस्या इति-भो सखे मेघ लम्बमानस्य जलाधिकमरेण तन स्थितस्य ते प्रस्थान गमनं कथमपि गरीयसा कष्टेन भावि भविष्यति । किं कृत्वा। तस्याः गम्भीरायाः सलिलवसनं सलिलमेव वसन वस्त्रं हृत्वा । किं विशिष्टं मुक्तो रोध एव तटमेव नितम्बः कटिप्रदेशो येन तत् । पुनः कीदृशम् । प्राप्तवानीरशाखं प्राप्ता। वानीराणां वेतसानां शाखा विटपाः यस्मिन् येन वा तत् । उत्प्रेक्ष्यते । किञ्चित्करटतमिव । ईपत्करण हस्तेन तमिव । योषितः करावलम्बितं वस्त्रं हरतोऽन्यस्यापि विलासिनः ततः स्थानाद्गमनं कटेन भवति । कुतो न भविष्यतीत्यर्थान्तरमाह । ज्ञातास्वादः अनुभूतवनितासम्भोगः विपुलजघनां पीनजनं
For Private And Personal Use Only