________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते
इत्यमरः ॥ निष्क्रान्ता विन्ध्या नाम नदी ॥ "निरादयः क्रान्ताद्यर्थपञ्चम्या" इति समासः। "द्विगुप्रासापन्नालम्-" इत्यादिना परवल्लिङ्गताप्रतिषेधः ॥ तस्या नद्याः संनिपत्य संगत्य। रसो जलमभ्यन्तरे यस्य सः। अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभवेत्यर्थः । "शृङ्गारादौ छले वीर्ये सुवणे विषशुक्रयोः। तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ। आस्वादे च रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनामन्तरेण कथं तत्रानुभवो युज्यतेत्यत आह-स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो विलास एवाय प्रणयवचनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्रमश्चात्र नाभिसंदर्शनादिरक्त एव ॥ २८॥
(चारि० ) उज्जयिन्यां केन पथा व गच्छामीत्याह-चीचीति । भो मेघ ! निर्विन्ध्यायाः नद्याः पथि मागें भव । किं कृत्वा रसाभ्यन्तरं रसस्य जलस्याभ्यन्तर मध्य संनिपत्य । अथवा रसं जलं अभ्यन्तरे मध्ये संनिपत्य एकस्थीकृत्य । कीदृश्याः। वीचीनां क्षोभस्तस्मात् स्वनिताः शब्दायमाना ये विहगाः पक्षिणस्तेषां श्रेणिः परम्परा सैव काञ्चीगुणो मेखलासूनं यस्याः सा तस्याः । पुनः कीदृश्याः संसर्पन्त्याः गछन्त्याः कथं यथा स्यात् । स्खलितसुभगं मनोज यथा स्यात् । पुनः कीदृश्याः दशित आवर्त एव वारिभ्रम एव नाभिर्यया सा तस्याः। अर्थान्तरमाहहि यतः कारणात् स्त्रीणां कामिनीनां प्रियेषु भर्तृषु प्रणयवचनं प्रीतियुक्तं वच आद्यो विभ्रमःप्रथमविलासः।अन्योऽपि शृङ्गाररसयुक्तः सन् नायिकायाः मार्गे गच्छति । साऽपि शब्दायमानमेखला स्यात् अपरं गच्छन्ती स्खलन्ती। नाभिं च दर्शयति कामोदेकात्। आवर्तश्चिन्तने वारिभ्रमे चावर्तने पुमानिति मेदिनीकारः ॥२८॥
(भाव) हे सेघ ! उज्जयिनीमार्गे विद्यमानाया निर्विन्ध्याया अनुरक्ताया नायिकाया इव रसाभ्यन्तरः सन् गच्छ । स्त्रीणां हि प्रियेषु विलासप्रदर्शनमेव प्राथमिकं प्रेमवचनं भवति॥२८॥ निर्विन्ध्याया विरहावस्था वर्णयंस्तनिराकरणं प्रार्थयतेवेणीभूतप्रतनुसलिलाऽसावीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपणैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
___ कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥२९॥ ( सञ्जी० ) वेणीति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूतकेशपाशेति च ध्वन्यते । रुहन्तीति रहाः इगुपधलक्षणः कप्रत्ययः । तटयो रहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः जीर्णपणः शुष्कपत्रैः पाण्डुच्छाया पाण्डव । अत एव हे सुभग, विरहावर-धमा पूर्वान्तप्रकारया करणेन ॥ अतीतस्यैतावन्तं कालमतीत्य गतस्य प्रोषितस्येत्यर्थः । ते तव सौभाग्यं सुभगत्वम् ॥ "हृद्भगसि. न्ध्यन्ते पूर्वपदस्य च” इत्युभयपदवृद्धिः ॥ व्याजयन्ती प्रकाशयन्ती। स खलु सुभगो यमछानाः कामयन्त इति भावः । असौ पूर्वोक्ता सिन्धु दी निर्विन्ध्या ॥ "स्त्री नद्यां ना नदे सिन्धुदेशभेदेऽम्बुधौ गजे" इति वैजयन्ती ॥ येन विधिना व्यापारेण काश्यं त्यजति स विधिस्त्वयैवोपपायः कर्तव्य इत्यर्थः। स च विधिरेकत्र वृष्टिरन्यत्र संभोगस्तदभावनिबन्धनत्वाकार्यस्येति भावः ॥ इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये-"नयनप्रीतिः प्रथमं चि. तासहस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिनपानाशः ॥ उन्मादो सूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥” इति । “तामतीतस्य” इति पाठमाश्रित्य सिन्धुर्नाम • नद्यन्तरमिति व्याख्यातम् । किंतु सिन्धु म कश्चिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि
For Private And Personal Use Only