________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः ।
षष्टी समस्यते" इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ “प्रधाननगरो राज्ञां राजधा. नीति कथ्यते” इति शब्दार्णवे ॥ गत्या प्राप्य सद्यः कामुकत्वस्य बिलासितायाः ॥ "विला. सी कामुकः कामी स्वीपरो रतिलम्पटः" इति शब्दाणे ॥ अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेषः । कर्मणि लुट् ॥ कुतः। यस्मात्कारणात्स्वादु मधुरम् चला ऊर्मयो यस्य तञ्चलोमि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्ग भ्रूकुटियुक्तम् । दुशनपीडयेति भावः । मुमिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गजितं तेन सुभगं यथा तथा । स्तनितशब्देन भणितमपि व्यपदिश्यते । “ऊर्ध्वमुच्चलितकण्ठनासिकं हुकृतं स्तनितमल्पघोषवत्" इति लक्षणात् ॥ पास्यसि ॥ पिबतेर्लट् ॥ "कामिनामधरास्वादः सुरतादतिरिच्यते” इति भावः ॥ २४ ॥
(चारि०) तेषामिति-भो मेध! त्वं वेत्रवत्या नद्याः स्वादयुक्तं मधुरं पयः पानीयं पास्यसि कथं कीदृशं चलास्तरला ऊर्मयः कल्लोला यत्र तत् । कथं यथा स्यात् । नीरोपान्ते कूलसमीप स्तनितेन मेघगजितेन यथा स्यात् । उत्प्रेक्षते-सभ्रूभङ्गंभूभङ्गसहितं मुखमिव । किं कृत्वा । तेषां दशार्णानां दिक्षु दिग्विभागेपु प्रथितं विख्यातं विदिशेति लक्षणं नाम यस्याः सा तां राजधानी गत्वा । पुनः किं कृत्वा सद्यस्तत्क्षणात् कामुकत्वस्य कामितायाः अविक लं सम्पूर्ण फलं लब्ध्वा प्राप्य । लक्षण नानि चिह्न चेति मेदिनीकारः । स्तनितं मेघगजितं इत्यमरः ॥२४॥
(भाव०) हे मेघ ! दशार्णदेशराजधानी प्रसिद्धां विदिशां गत्वा तत्र वेत्रवत्या नद्याः स्वादु तीरप्रान्ते सशब्द जलं दशनपीडया नायिकाधरमिव पीत्वा कामुकत्यस्य पूर्ण फलं लप्स्यसे ॥२४॥ नीराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो
स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिन गराणा
मुद्दामानि प्रथयति शिलावेश्मपियौवनानि ॥ २५ ॥ ( सञ्जी० ) नीचैरिति ॥ हे मेध ! तत्र विदिशासमीपे । विश्रानो विश्रमः खेदापनयः ॥ भावाथे घञ्प्रत्ययः ॥ तस्य हेतोः। विश्रामार्थमित्यर्थः । “षष्ठी हेतुप्रयोगे” इति षष्ठी॥ विश्रामेत्यन्त्र "नोदात्तोपदेशस्य मान्तस्यानाचमेः” इति पाणिनीये वृद्धिप्रतिषेधेऽपि "विश्रामो वा” इति चन्द्रव्याकरणे विकलपेन वृद्धिविधानादूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्धकुसमैः कदम्बैनोपवृक्षस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव संजातपुलकमिव स्थितम् ॥ तारकादित्वादितप्रत्ययः ॥ नीचैरित्याख्या यस्य ते नीराख्यं गिरिमधिवसेः॥गिरौ वसेरित्यर्थः ॥ "उपवध्यावसः" इति कर्मत्वम् । यो नीचैगिरिः । पण्या: क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी" इति शब्दावे ॥ तासां रतिषु यः परिमलो गन्धविशेषः ॥ "विमदोत्थे परिमलो गन्धे जनमनोहरे" इत्यमरः ॥ तमुद्विरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरै गराणां पौराणामहामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः क्वचिदनुरक्ता वारांगना विश्रामविहाराकांक्षिण्यो मात्रादिभयानिशीथसमये कंचन विविक्त देशमाश्रित्य रमन्ते । तच्चान बहलमस्तीति प्रसिद्धिः। अत्रोद्गारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना-'निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अ. तिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥” इति ॥ २५ ॥
For Private And Personal Use Only