SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ मेधातिथिभाष्यसमलंकृता । द्वादशः] + एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना ॥ स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥ १२५ ॥ इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्दिनः ।। ४ भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ॥ १२६ ॥ इति मानवे धर्मशास्त्रे भृगुमोक्तायां संहितायां द्वादशोऽध्यायः ॥१२॥ ॥ समाप्तैषा मनुसंहिता ॥ इतिः शास्त्रसमाप्तिमाह । पठन् भवत्याचारवान् । अन्यो अध्याहार्य आचारो यथा पठितशास्त्रान्तरात्स्वनुष्ठानं एवंविधश्चेद्भवति यथेष्टां देवतादिलक्षणां गतिं ब्रह्माभ्येति ब्रह्मभावमापद्यते । मैत्रायवमाप्तेन रागद्वेषक्षयमनुवदति । अनेन चाविजातीयप्रत्ययान्तरितात्मैकत्वज्ञानमनुष्ठेयमाह । न हि विजातीयप्रत्ययोत्पत्तौ सर्वसंमतता भवति। अतश्चैतदुक्तं भवति । अहं ममेति त्यत्क्वाऽहंकारममकारस्य तदेकज्ञाननियततया १० निरतिशयपरमानंदरूपं ब्रह्म प्राप्नोति । अनिष्टनिवृत्तिः शास्त्रप्रदर्शिताभिप्रेतप्रतिनियमेन च फलसिद्धिर्भवति इत्यर्थः ।। १२६ ॥ इतिश्रीभट्टवीरस्वामिमूनोभट्टमेधातिथिविरचिते मनुभाष्ये द्वादशोऽध्यायः ॥ १२ ॥ समाप्तं ॥ शुभं वतु ॥ + चतर्वेदसमं पुण्यमस्य शास्त्रस्य धारणात । भूयो वाऽप्यतिरिच्येत पापनिर्यातनं महत् ॥१॥ ४ मनुः स्वायंभुवो देवः सर्वशास्त्रार्थपारगः । तस्यास्य निर्गतं धर्म विचार्य बहुविस्तरम् ॥ २॥ ये पठन्ति द्विजाः केचित्सर्वपापोपशान्तिदम् । ते गच्छन्ति परं स्थानं ब्रह्मणः सन शाश्वतम् ॥३॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy