SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४५२ मेधातिथिभाष्यसमलंकृता । [ पंचमः । वैमनविरेचने प्रसिद्धे । अशितमन्नं येन मुखेनोद्गीर्ण स वान्तः पुरुषः । यस्योच्चारवेगा अष्टसंख्याया ऊर्ध्वं जाता हरीतक्यादिभक्षणेन व्याधिना वा स विरिक्तः । तौ स्नानं प्रथमं कुर्याताम् । ततोऽन्ते घृतप्राशनं कृत्वैतदन्यदन्न घृतप्राशनेन भोजनान्तरनिवृत्तिः प्रायश्चित्तषु द्रव्यशुद्धिरियं भस्मोदकमार्जनवघृतप्राश५ नम्। आचमेदेव भुक्त्वाऽन्नम् । अन्नं भुक्त्वा तदहरेव यदि वमनविरेचने स्यातां तदाऽऽचमनमेव केवलं न स्नानघृतप्राशने । अपरैस्तु स्वतन्त्रं व्याख्यायते । भुक्त्वाचामेदेव भोजनानन्तरमाचनं विहितं तस्यैवायमपवादः । मैथुनिनः स्त्रियां कृतशुत्रोत्सर्गः स्नानेन शुध्यति ॥ १४३ ॥ १० www. kobatirth.org २० २५ Acharya Shri Kailassagarsuri Gyanmandir 1 क्षुत्वा अनिच्छतो वायुप्रेर्यमाणस्य यो नासिकाच्छिद्रादुपजायते शब्दः स क्षवथुस्तं कृत्वा । प्रयतोऽपि सन् एतद्ध्येष्यमाणपदेनैव संबन्ध्यते । प्रयतोऽप्यध्येष्यमाण आचम्याधीयीत अध्ययनविध्यङ्गतयाऽऽचमनं कुर्यादित्यर्थः । स्नानादिभ्यस्त्वनन्तरं सकृदेव । यत्पुनरुक्तं "C १५ सुप्त्वा क्षुत्वा च भुक्त्वा च पीत्वाऽऽपो वै मुनिस्तथा । आचान्तः पुनराचामेन्निष्ठीव्योक्त्वाऽनृतं वचः ॥ " इति सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतानि च ॥ पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ।। १४४ ॥ एवमभिसंबन्धोऽत्र कर्तव्यः । आचान्तो भुक्त्वा पुनराचामेत् । यत्र पुनर्द्विराचामेदिति पठ्यते तत्रानन्तर्येणैकक्रियावृत्तिः ॥ १४४ ॥ एष शौचविधिः कृत्स्त्रो द्रव्यशुद्धिस्तथैव च ॥ उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ।। १४५ ॥ आद्येन पादत्रयेण शुद्धिप्रकरणोपसंहारश्चतुर्थेन वक्ष्यमाणसंक्षेपवचनम् । शौचविधिशब्दः सामान्यशब्दोऽपि द्रव्यशुद्धिसंनिधानाद्गोबलीवदेवदितरविशेषपरः संपद्यते । स्त्रीणा धर्मा असाधारणस्त्रीकर्तृका एव । यस्तु साधारणो यागादिः स इह नोच्यते ॥ १४५॥ बालया वा युवत्या वा वृद्धया वाऽपि योषिता ॥ न स्वातन्त्र्येण कर्तव्यं किंचित्कार्य गृहेष्वपि ॥ १४६ ॥ स्वातंत्र्यं स्त्रीषु कस्यचिदवस्थायां नास्तीत्युपदेशार्थः । वयोविभागवचनं तु यत्रास्याः पारतन्त्र्यं तत्प्रदर्शनार्थमविवक्षित स्वरूपम् । तथा चोक्तम् " तत्सपिण्डेषु वा सत्सु पितृपक्षे प्रभुः स्त्रियाः । पक्षद्वयावसाने तु राजा भर्ता स्त्रिया मतः ॥ १४६॥ १ अ-क-ड-क्ष- वामनविरेचने । २ अ-क-ड-क्ष-पारतंत्र For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy