________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsuri Gyanmandir उत्तरदिग्गतकीलसमीपं गत्वा तत्र ॐ कुंकुबेर सांग सपरिवार इहागच्छागच्छ इति कुबेरमावाह्य नरवाहनं गदाहस्तं शुक्लवर्ण यक्षगण परिवेष्टितं ध्यात्वा ॐ कुं कुबेराय नमः इत्यासनायुपचारैः संपूज्य तत्पुरतश्चतुरस्रं मंडलं जलेन कृत्वा तत्रापूपपरितं पुटकं निधाय दक्षहस्ते धू जलं गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन् "ॐ कूकंळू ॐ क्रांकांक्रां नोभो यक्षनाथ शीघ्रं मे प्रसन्नो भव मिद्धिं मे देहि इममपूपबलि गृहगृह हूं फट् / " इति मंत्रेण तस्मिन्पात्रे जलं बलिं चोत्सृज्य तांबूलं च दत्त्वा प्रणमेत // 7 // ततः ईशानकोणगतकीलसमीपं गत्वा| तत्र ॐ हं ईशान सांग सपरिवार इहागच्छागच्छ इतीशानमावाह्य वृषभारूढं शूलहस्तं श्वेतवर्ण विद्यागणमेवितमीशानं ध्यात्या ॐ ही ईशानाय नमः / इत्यासनाद्यपचारैः संपूज्य तत्पुरतश्चतुरनं मंडलं जलेन कृत्वा तत्र शकुलीपुरितपुटकं निधाय दशहस्ते जलं गृहीत्या वामहस्तेन तत्पात्रं स्पृशन "ॐ श्रांश्रीभ्रू ॐ श्रांश्रांत्रां भोजो ईशान विद्याधिपते शीघ्रं मे प्रमन्नो भव सिद्धि में देहि इमं शकुलाबलिं| गहगृह हुं फट् / " इति मंत्रण तस्मिन्पात्रे जलं बलिं चोत्सृज्य तांबूलं च दत्त्वा प्रणमेत् // 8 // इत्यष्टदिक्पालेन्यो बलिं दत्त्वा ततः मध्यस्तंभसमीपे गत्वा निर्भयः सन् ततः हांहींई स्तंभाय नमः। इत्यासनायुपचारैः संपूज्य मंत्रमयं कवचं पठेत् / / कवचं मत्रमयं यथा // ॐ हाह्रीह्रः क्षिीक्षक्षः ब्रांडोंग्āरवः घांघींबूंघः प्रांम्रीव्रम्रः म्रोम्रोम्रोम्रो क्लोक्कोक्कोंक्तों ओश्रीगोंओं जोजोजोजों हुँहुं हुं हुं हुं हुं हुं हुं फट / सर्वतो रक्षरक्षरक्षरक्ष भैरवनाथनाथ हुं फट्।” इति मंत्ररूपंकवचद्वारा स्वशरीरे व्यापकरूपेणात्मरक्षां कत्वा स्तंभसमीपे स्वासने पूजिते / 1 अस्य प्रसादमासाय साधको निर्भयो भवेत् / सर्वरक्षाकरप्रोक्तः साधकाभीष्टदायकः // एवं विधाय मतिमांस्तनी रक्षां विशालधीः / वरिशांतिमधी कुर्यात्सर्वकार्यस्य सिद्धये // तया सिद्धचंति कापाणि साधकानां महेश्वरि / यावत्कुर्यात्र वीराणां शांतिसाधकसत्तमः // सावन जायते सिद्धिः साधकस्य कथंचन // For Private And Personal Use Only