________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २० )
इति पृष्टा समाचष्ट सा स्मितमुखाम्बुजा || १०३ ।। पूर्वमावेदितोष राजा चित्ररथो मया ।
तस्य कादम्बरीत्यस्ति नाम्ना कन्या मम स्वसा ॥ १०४ ॥ कान्तिचेत्कमला यस्याः काया यमवलम्बताम् । कलत्रमपि कामस्य दृश्येत दिनदीपिका ( ? ) || १०५ ।। सा सद्गुणानामवधिः सौन्दर्योदधिचन्द्रिका । स्वापि स्वामिकन्यापि ममासीद्वत्सला सखी ॥ १०६ ॥ सा मे तपस्यया खिन्ना संविदं व्यतनीदिमाम् । सखीनामपि सर्वासां पुरः पित्रोरसन्निधौ ॥ १०७ ॥ महाश्वेता यदा तस्मै करं दास्यति कामिने । करं दास्यामि कस्मैचिदहं तस्मादनन्तरम् || १०८ ॥ इति प्रतिज्ञां श्रुत्वास्याः तां निवर्तयितुं मया । प्रेषयामासतुः कञ्चित्पितरौ वेत्रिणं मम ॥ १०९ ॥ तेन क्षीरोदनाम्ना सा तदर्थं प्रेषिता मया ।
प्रातरेष्यति च मे तत्सन्देशं निवेदितुम् ॥ ११० ॥ श्रुत्वेति वचनं तस्यास्तदारभ्योदितस्पृहः । कादम्बर्या कथंचिच्च तां निशामत्यवाहयत् ॥ १११ ॥ ततस्तरलिका प्रातस्तस्याः सन्देशधारिणी । केयूरकेन भृत्येन कादम्बर्या सहाययौ ॥ ११२ ॥ चन्द्रापीडं तमालोक्य सा दूरादेव तत्सखी ।
मासमेव संजज्ञे पुण्डरीकाङ्गहारिणम् ॥ ११३ ॥ ततो नत्वा महाश्वेतां तावुभौ च शशंसतुः । कादम्बर्या निगदितं संविदोऽनतिलङ्घनम् ॥ ११४ संचिन्त्य तस्याः सा चान्तः संविदः प्रतिमोचनम् । शक्यं कर्तुमनेनेति सस्मितं तं ततोऽब्रवीत् ॥ ११५ । यद्येव पितरावस्या यास्यतो महतीं शुचम् ।
For Private and Personal Use Only