________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीलङ्कारमण्डनमः त्वं निलपोऽसि दयितां पदयोः पतन्ती नापक्षसे मृगशं किमसौ पुनश्च ।
त्वां नैव मुञ्चति शठं हृदयारविन्दागोविन्द ! नास्ति भवता सदृशोऽत्र लोके ॥ ५६ ॥ अथवा
चरणकमलसेवा कारयस्येव नित्यं
क्षणमपि च सुखं नः संभृते! ददासि । किमपरमधुना ते कथ्यते श्रीमुरारे !
तदपि हृतमानत्यं जीवितं चास्मदीयम् ॥ ५५ ॥ स्तुतिदम्भानिन्दा यथा
अलमिह खल! चिन्ताव्याकुलत्वेन नित्यं
श्रुतिपटलगतं ते रोचते भूपतिभ्यः । तव जगति जनोऽसौ वश्य अवेत्यवश्यं
भयमपि सुजनानां त्वद्वचः सञ्चयेन ॥ ५८ ॥ सहोक्तिमाह
सहार्थस्य बलाबत्र भवेदुभयवाचकम् । एकार्थबोधकं तत्तु सा सहोक्तिरतु कथ्यते ॥ ३८ ॥ प्रतापेन सहानन्दं सद्यः शमयसि द्विषाम् ।
असुभिः सह सर्वस्वं हरे ! हरसि वाऽसताम् ।। ५९ ॥ परिवृत्तिमाह
न्यूनस्य वा समस्य स्यादन्योऽन्यं परिवर्तनम् ।
अर्थस्य यत्रालङ्कारः परिवृत्तिरसौ मता ॥ ३९ ॥ दत्त्वा निजं जीवितमेणदृष्टया कान्ताय तस्यापहृतं च चेतः ।। बाहुग्रहं तस्य विधाय कण्ठे तद्बाहुबन्धोऽथ पुनहीतः ॥ ६० ॥
For Private and Personal Use Only