________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलकारमण्डनमू.
DY.
कालिन्दिकाजलतरङ्गचलत्कृपाण
आश्चत्तुरङ्गमधिरोहति भूतनाथः ॥ ११ ॥ भयानको यथा
मेखलाघण्टिकानादमुखरीकृतदिङ्मुखः ।
बटुर्जगति नो याति पावकाभोर्ध्वमूर्ध्वजः ॥ १२ ॥ बीभत्सो यथाखादन्ति मांसानि पिबन्त्यमृति भूता मधूनीव कपालपात्रे । अद्भुतो यथाबाल्येऽपि येनावधि पूतनाऽस्य कृष्णस्य वर्ण्यः किमतः प्रभावः । शान्तो यथाआपादमूलं नमयन्ति केचिच्छिन्दन्ति केचित्तु वचः कुठारैः । तथापि नो वक्ति किमप्यसाधु क्षमाधरो वृक्ष इवैष साधुः ॥१३
देवतामुनिगुर्वादौ रतिर्भावो निगद्यते ।
व्यभिचारी तथा मुख्यो यः स भावः प्रकीर्तितः ॥६॥ देवतारतियथारागस्य यस्यास्ति तवाभिधानमालप्तितस्तस्य ममातिसौख्यम् । स चेत्स्वयं लोचनगोचरस्त्वं श्रीभैरव ! स्याः किमतो वदामि॥१४॥ मुख्यो व्यभिचारी यथायावदेव सखि ! चिन्तयाम्यहं प्राणनाथमथ पापकारिणा । पुष्पबाणनिचयेन वर्षता मन्मथेन शकलीकृतं मनः ॥१५॥ अत्र विषादः ॥
अथ रसाभासानाहरसाभावाश्च ये धर्मास्तदाभासास्तु ते स्मृताः ।
For Private and Personal Use Only